गौर्वै देवता पञ्चममहर्वहति त्रिणवःस्तोमः शाक्वरं साम पाङ्क्तिश्छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै नेति न प्रेति यत्स्थितं तत्पञ्चमस्याह्नो रूपं यद्ध्येव द्वितीयमहस्तदेतत्पुनर्यत्पञ्चमं यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्दुग्धवद्यदूधवद्यद्धेनुमद्यत्पृश्निमद्यन्मद्वद्यत्पशुरूपं यद-ध्यासवद् विक्षुद्रा इव हि पशवो यज्जागतं जागता हि पशवो यद्बार्हतम्बार्हता हि पशावो यत्पाङ्क्तम् पाङ्क्ता हि पशवो यद्वामं वामं हि पशवो यद्धविष्मद्धविर्हि पशवो यद्वपुष्मद्वपुर्हि पशवो यच्छाक्वरं यत्पाङ्क्तं यत्कुर्वद्यद्द्वितीयस्याह्नो रूपमेतानि वै पञ्चमस्याह्नो रूपाणीममू षु वो अतिथिमुषर्बुधमिति पञ्चमस्याह्न आज्यम्भवति जागतमध्यासवत्पशुरू-पम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमा नो यज्ञं दिविस्पृशमा नो वायो महे तने रथेन पृथुपाजसा बहवः सूरचक्षस इमा उ वां दिविष्टयः पिबा सुतस्य रसिनो देवं-देवं वोऽवसे देवंदेवम्बृहदु गायिषे वच इति बार्हतम्प्रउगम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपम्यत्पाञ्चजन्यया विशेति मरुत्वतीयस्य प्रतिपत्पाञ्चजन्ययेति पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्र इत्सोमपा एक इन्द्र नेदीय एदिह्युत्तिष्ठ ब्रह्मणस्पतेऽग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपो बृहदिन्द्रा य गायतेति द्वितीयेनाह्ना समान आतानः पञ्चमेऽहनि पञ्चमस्याह्नो रूपमवितासि सुन्वतो वृक्तबर्हिष इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमित्थ हि सोम इन्मद इति सूक्तम्मद्वत्पाङ्क्तम्पञ्चपदम्पञ्चमेऽहनि पञ्चमस्याह्नो रूपमिन्द्र पिब तुभ्यं सुतो मदायेति सूक्तम्मद्वत्त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते मरुत्वाँ इन्द्र मीढ्व इति पर्यासो नेति न प्रेति पञ्चमेऽहनि पञ्चमस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं
दधाति ६