०५

विश्वास-प्रस्तुतिः

कुह श्रुत इन्द्रः कस्मिन्नद्येति सूक्तं वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

(The Remainder of the Niṣkevalya Śastra, and the Śastras of the Evening Libation)

Kuha śruta indraḥ (10, 22) is the Vimada hymn, with alliterations, assonances, and consonances, by the Ṛiṣi whose (name) is contained in an alliteration (vi vo made in 10, 21 being taken as equal to vimada). This is one of the characteristics of the fourth day.

मूलम्

कुह श्रुत इन्द्रः कस्मिन्नद्येति सूक्तं वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

युध्मस्य ते वृषभस्य स्वराज इति सूक्तमुरुं गभीरं जनुषा ऽभ्युग्रमिति जातवच्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

The hymn yudhmasya te vṛiṣabhasya (3, 46) contains (in the fourth verse) the word januṣâ (from the root jan “to be born”), which is a characteristic of the fourth day.

मूलम्

युध्मस्य ते वृषभस्य स्वराज इति सूक्तमुरुं गभीरं जनुषा ऽभ्युग्रमिति जातवच्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।

Haug

It is in the Triṣṭubh metre. By means of the padas of this hymn which stand firm, the Hotar keeps the libation, lest it fall from its proper place.

मूलम्

तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारा ऽऽयतनादेवैतेन न प्रच्यवते ।

विश्वास-प्रस्तुतिः

त्यमुवः सत्रासाहमिति पर्यासो विश्वासु गीर्ष्वायतमित्यभ्यायाम्यमिवैतदहस्तेन चतुर्थस्याह्नो रूपम् ।

Haug

Tyam uvaḥ satrâsâham (8, 81) is the setting. Its words, viśvâsu gîrṣv âyatam, indicate that this day’s work is to be made long, as it were, which is one of the characteristics of the fourth day.

मूलम्

त्यमुवः सत्रासाहमिति पर्यासो विश्वासु गीर्ष्वायतमित्यभ्यायाम्यमिवैतदहस्तेन चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य माध्यंदिनं वहन्ति ।

Haug

They are in the Gâyatrî metre; the Gâyatrîs are the leaders of the midday libation in these three (latter) days.

मूलम्

ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य माध्यंदिनं वहन्ति ।

विश्वास-प्रस्तुतिः

तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति ।

Haug

The Nivid is to be put in that metre which leads (the day); therefore they put the Nivid in the Gâyatrîs.

मूलम्

तद्वैतच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति ।

विश्वास-प्रस्तुतिः

विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हते ऽहनि चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

Viśvô devasya netus (5, 50, 1), tat savitur vareṇyam (3, 62, 10-18), â viśvadevam saptatim (5, 82, 7-9), are the beginning and sequel of the Vaiśvadeva Śāstra on the fourth day, which is a Bṛihat day, being one of the characteristics of the fourth day.

मूलम्

विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हते ऽहनि चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

आ देवो यातु सविता सुरत्न इति सावित्रमेति चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

A devô yâtu (7, 45) is the (Nivid) hymn for Savitar; it contains the term ā, which is a characteristic of the fourth day.

मूलम्

आ देवो यातु सविता सुरत्न इति सावित्रमेति चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्यावापृथिवीयं प्रेति चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

Pra dyâvâ yajñaiḥ pṛithivî (7, 53) is the (Nivid) hymn for Dyâvâpṛithivî; it contains the term pra, which is a characteristic of the fourth day.

मूलम्

प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्यावापृथिवीयं प्रेति चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

प्र ऋभुभ्यो दूतमिव वाचमिष्य इत्यार्भवं प्रेति च वाचमिष्य इति च चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

Pra ṛibhubhyô dûtam iva vâcham iṣya (4, 33) is the (Nivid) hymn for the Ribhus; it contains the words pra and vâcham iṣya, which are characteristics of the fourth day.

मूलम्

प्र ऋभुभ्यो दूतमिव वाचमिष्य इत्यार्भवं प्रेति च वाचमिष्य इति च चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

प्र शुक्रैतु देवी मनीषेति वैश्वदेवं प्रेति च शुक्रवच्च चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

Pra śukrâitu devîmanîṣâ (7, 34) is the (Nivid) hymn for the Viśvedevâḥ; it contains the terms pra and śukra, which are characteristics of the fourth day.

मूलम्

प्र शुक्रैतु देवी मनीषेति वैश्वदेवं प्रेति च शुक्रवच्च चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

ता उ विच्छन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपम् ।

Haug

It has different metres, such as consist of two padas, and such as consist of four padas. This is a characteristic of the fourth day.

मूलम्

ता उ विच्छन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

वैश्वानरस्य सुमतौ स्यामेत्याग्निमारुतस्य प्रतिपदितो जात इति जातवच्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

Vaiśvânarasya sumatâu syâma (1, 98) is the beginning of the Agni-mâruta Śāstra; it contains the term jâta, which is a characteristic of the fourth day.

मूलम्

वैश्वानरस्य सुमतौ स्यामेत्याग्निमारुतस्य प्रतिपदितो जात इति जातवच्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

क ईं व्यक्ता नरः सनीळा इति मारुतं नकिर्ह्येषां जनूंषि वेदेति जातवच्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

Ka îṁ vyaktâ (7, 56) is the (Nivid) hymn for the Marutas. (In the third pada of its first verse) there are the words, nakir hy eṣâṁ janûṅṣi veda, which contain the root jan to be born (in janûṅṣi), which is a characteristic of the fourth day.

मूलम्

क ईं व्यक्ता नरः सनीळा इति मारुतं नकिर्ह्येषां जनूंषि वेदेति जातवच्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

ता उ विच्छन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपम् ।

Haug

The verses of this hymn are in unequal metres; some have two padas, some four. This constitutes a characteristic of the fourth day.

मूलम्

ता उ विच्छन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।

Haug

Jâtavedase sunavâma somam (1, 99, 1) is the immovable Jâtavedâs verse.

मूलम्

जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।

विश्वास-प्रस्तुतिः

अग्निं नरो दीधितिभिररण्योरिति जातवेदस्यं हस्तच्युती जनयन्तेति जातवच्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

Haug

Agnim narô dîdhitibhir (7, 1) is the (Nivid) hymn for Jâtavedâs; it contains the term janayanta, which is a characteristic of the fourth day.

मूलम्

अग्निं नरो दीधितिभिररण्योरिति जातवेदस्यं हस्तच्युती जनयन्तेति जातवच्चतुर्थे ऽहनि चतुर्थस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

ता उ विच्छन्दसः सन्ति विराजः सन्ति त्रिष्टुभस्तेन चतुर्थस्याह्नो रूपमह्नो रूपम् ।

Haug

Its meters are unequal; there are in it Virâjas and Triṣṭubhs. This constitutes a characteristic of the fourth day.

मूलम्

ता उ विच्छन्दसः सन्ति विराजः सन्ति त्रिष्टुभस्तेन चतुर्थस्याह्नो रूपमह्नो रूपम् ।