कुह श्रुत इन्द्रः कस्मिन्नद्येति सूक्तं वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं युध्मस्य ते वृषभस्य स्वराज इति सूक्तमुग्रं गभीरं जनुषाभ्युग्रमिति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवते त्यमु वः सत्रासाहमिति पर्यासो विश्वासु गीर्ष्वायतमित्यभ्यायाम्यमिवैतदहस्तेन चतुर्थस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्! यहस्य मध्यंदिनम्वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि चतुर्थेऽहनि चतुर्हस्याह्नो रूपमा देवो यातु सविता सुरत्न इति सावित्रमेति चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्यावापृथिवीयम्प्रेति चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र ऋभुब्योओ दूतमिव वाचमिष्य इत्यार्भवम्प्रेति च वाचमिष्य इति च चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्प्र शुक्रैतु देवी मनीषेति वैश्वदेवम्प्रेति च शुक्रवच्च चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपं वैश्वानरस्य सुमतौ स्यामेत्याग्निमारुतस्य प्रतिपदितो जात इति जातव-च्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं क ईं व्यक्ता नरः सनीळा इति मारुतं नकिर्ह्येषां जनूंषि वेदेति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति द्विपदाः सन्ति चतुष्पदास्तेन चतुर्थस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युताग्निं नरो दीधितिभिररण्योरिति जातवेदस्यं हस्तच्युती जनयन्तेति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ विछन्दसः सन्ति विराजः
सन्ति त्रिष्टुभस्तेन चतुर्थस्याह्नो रूपमह्नो रूपम् ५
१