०४

वाग्वै देवता चतुर्थमहर्वहत्येकविंशः स्तोमो वैराजं सामानुष्टुप्छन्दो यथा-देवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राद्न्नोति य एवं वेद यद्वा एति च प्रेति च तच्चतुर्थस्याह्नो रूपं यद्ध्येव प्रथममहस्तदेतत्पुनर्यच्चतुर्थं यद्युक्त-वद्यद्र थवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोकोऽभ्युदितो यज्जातवद्यद्धववद्यच्छुक्रवद्यद्वाचो रूपं यद्वैमदं यद्विरिफितं यद्विछन्दा यदूनातिरिक्तं यद्वैराजं यदानुष्टुभं यत्करिष्यद्यत्प्रथमस्याह्नो रूपमेतानि वै चतुर्थस्याह्नो रूपाण्याग्निं न स्ववृक्तिभिरिति चतुर्थस्याह्न आज्यम्भवति वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपमष्टर्चम्पाङ्क्तम्पाङ्क्तो यज्ञः पाङ्क्ताः पशवः पशूनामवरुद्ध्यै ता उ दश जगत्यो जगत्प्रातःसवन एष त्र्यहस्तेन चतुर्थस्याह्नो रूपं ता उ पञ्चदशानुष्टुभ आनुष्टुभं ह्येतदहस्तेन चतु-र्थस्याह्नो रूपं ता उ विंशतिर्गायत्र्यः पुनः प्रायणीयं ह्येतदहस्तेन चतुर्थस्याह्नो रूपं तदेतदस्तुतमसस्तमयातयाम सूक्तं यज्ञ एव साक्षात्तद्यदेतच्चतुर्थस्याह्न आज्यम्भवति यज्ञादेव तद्यज्ञं तन्वते वाचमेव तत्पुनरुपयन्ति संतत्यै संततैस्त्र्! यहैरव्यवछिन्नैर्यन्ति य एवं विद्वांसो यन्ति वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतं हरीणामिन्द्र श्च वायवेषां सोमानामा चिकितान सुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमप त्यं वृजिनं रिपुमम्बितमे नदीतम इत्यानुष्टुभम्प्रउगमेति च प्रेति च शुक्रवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं तं त्वा यज्ञेभिरीमह इति मरुत्वतीयस्य प्रतिपदीमह इत्यभ्यायाम्यमिवैतदहस्तेन चतुर्थस्याह्नो रूपमिदं वसो सुतमन्ध इन्द्र नेदीय एदिहि प्रैतु ब्रह्मणस्पतिरग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यपः प्र व इन्द्र य बृहत इति प्रथमेनाह्ना समान आतानश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं श्रुधी हवमिन्द्र मा रिषण्य इति सूक्तं हववच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपम्मरुत्वाँ इन्द्र वृषभो रणयेति सूक्तमुग्रं सहोदामिह तं हुवेमेति हववच्चतुर्थेऽहनि चतुर्थस्याह्नो रुपां तदु त्रैष्टुभं तेन प्रतिष्ठितपदेन सवनं दाधारायतनादेवैतेन न प्रच्यवत इमं नु मायिनं हुव इति पर्यासो हववांश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं ता उ गायत्र्यो गायत्र्यो वा एतस्य त्र्यहस्य मध्यंदिनं वहन्ति तद्वै तच्छन्दो वहति यस्मिन्निविद्धीयते तस्माद्गायत्रीषु निविदं दधाति पिबा सोममिन्द्र मन्दतु त्वा श्रुधी हवं विपिपानस्याद्रे रिति वैराजम्पृष्ठम्भवति बार्हतेऽहनि चतुर्थेऽहनि चतुर्थस्याह्नो रूपं यद्वावानेति धाय्याच्युता त्वामिद्धि हवामह इति बृहतो योनिमनु निवर्तयति बार्हतं ह्येतदहरायतनेन त्वमिन्द्र प्रतूर्तिष्विति सामप्रगाथोऽशस्तिहा जनितेति जात-वांश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति तार्क्ष्योऽच्युतः