आप्यन्ते वै स्तोमा आप्यन्ते छन्दांसि तृतीयेऽहन्येतदेव तत उच्छिष्यते वागित्येव तदेतदक्षरं त्र्यक्षरं वागित्येकमक्षरमक्षरमिति त्र्यक्षरं स एवैष उत्तरस्त्र्याहो वागेकं गौरेकं द्यौरेकं ततो वै वागेव चतुर्थमहर्वहति तद्यच्चतुर्थमहर्न्यूङ्खयन्त्येतदेव तदक्षरमभ्यायछन्त्येतद्वर्धयन्त्येतत्प्रबिभावयिष-न्ति चतुर्थस्याह्न उद्यत्या अन्नं वै न्यूङ्खो यदेलवा अभिगेष्णाश्चरन्त्य-थान्नाद्यम्प्रजायते तद्यच्चतर्थमहर्न्यूङ्खयन्त्यन्नमेव तत्प्रजनयन्त्यन्नाद्यस्य प्रजात्यै तस्माच्चतुर्थमहर्जातवद्भवति चतुरक्षरेण न्यूङ्खयेदित्याहुश्चतुष्पादा वै पशवः पशूनामवरुद्ध्यै त्र्! यक्षरेण न्यूङ्खयेदित्याहुस्त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्या एकाक्षरेण न्यूङ्खयेदिति ह स्माह लाङ्गलायनो ब्रह्मा मौद्गल्य एकाक्षरा वै वाग् एष वाव सम्प्रति न्यूङ्खं न्यूङ्खयति य एकाक्षरेण न्यूङ्खयतीति द्व्यक्षरेणैव न्यूङ्खयेत्प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मा-द्द्व्यक्षरेणैव न्यूङ्खयेन्मुखतः प्रातरनुवाके न्यूङ्खयति मुखतो वै प्रजा अन्नमदन्ति मुखत एव तदन्नाद्यस्य यजमानं दधाति मध्यत आज्ये न्यूङ्खयति मध्यतो वै प्रजा अन्नं धिनोति मध्यत एव तदन्नाद्यस्य यजमानं दधाति मुखतो मध्यंदिने न्यूङ्खयति मुखतो वै प्रजा अन्नमदन्ति मुखत एव तदन्नाद्यस्य यजमानं दधाति
तदुभयतो न्यूङ्खम्परिगृह्णाति सवनाभ्यामन्नाद्यस्य परिगृहीत्यै ३