विश्वास-प्रस्तुतिः
यो जात एव प्रथमो मनस्वानिति सूक्तं समानोदर्कं तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
Haug
(The Nivid Hymn of the Niṣkevalya Śastra, and the Śastras of the Evening Libation of the Third Day)
Yo jātô eva prathamô manasvân (2, 12) is the (Nivid) hymn, every verse of which ends in the same words (sa janāsa Indraḥ), which is a characteristic of the third day.
मूलम्
यो जात एव प्रथमो मनस्वानिति सूक्तं समानोदर्कं तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु सजनीयमेतद्वा इन्द्रस्येन्द्रियं यत्सजनीयमेतस्मिन्वै शस्यमान इन्द्रमिन्द्रियमाविशति ।
Haug
It contains the words sa jana and Indra. If this be recited, then Indra becomes possessed of his Indra (peculiar) power.
मूलम्
तदु सजनीयमेतद्वा इन्द्रस्येन्द्रियं यत्सजनीयमेतस्मिन्वै शस्यमान इन्द्रमिन्द्रियमाविशति ।
विश्वास-प्रस्तुतिः
तद्धाप्याहुश्छन्दोगास्तृतीये ऽहनि बह्वृचा इन्द्रस्येन्द्रियं शंसन्तीति ।
Haug
The Sāma singers, therefore, say, the Rigvedis (the Hotars) praise Indra’s peculiar nature (power, indrasya indriyam).
मूलम्
तद्धाप्याहुश्छन्दोगास्तृतीये ऽहनि बह्वृचा इन्द्रस्येन्द्रियं शंसन्तीति ।
विश्वास-प्रस्तुतिः
तत् उ गार्त्समदम् एतेन वै गृत्समदः इन्द्रस्य प्रियम् धाम उपागच्छत् सः परमम् तदु गार्त्समदमेतेन वै गृत्समद इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयत् उपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद ।
Haug
This hymn is by the Ṛiṣi Gṛitsamada. By means of it, this Ṛiṣi obtained Indra’s favour and conquered the highest world. He who has this knowledge obtains Indra’s favour and conquers the highest world.
मूलम्
तदु गार्त्समदमेतेन वै गृत्समद इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयत् उपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद ।
विश्वास-प्रस्तुतिः
तत्सवितुर्वृणीमहे ऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरे ऽहनि तृतीये ऽहनि तृतीयस्याह्ने रूपम् ।
Haug
Tat Savitur vṛiṇîmahe vayam (5, 82, 1-3) and adyâ no deva savitaḥ (5, 82, 3-5), are the beginning and the sequel of the Vaiśvadeva Śāstra on the third day, which is a Rathantara day.
मूलम्
तत्सवितुर्वृणीमहे ऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरे ऽहनि तृतीये ऽहनि तृतीयस्याह्ने रूपम् ।
विश्वास-प्रस्तुतिः
तद्देवस्य सवितुर्वार्यं महदिति सावित्रम् अन्तो वै महदन्तस्तृतीयमहस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
Haug
Tad devasya Savitur vāryam mahad vṛiṇîmahe (4, 53, 1) is the (Nivid) hymn for Savitar. Because the end (which is aimed at) is a great one (mahad); and the third day is also an end.
मूलम्
तद्देवस्य सवितुर्वार्यं महदिति सावित्रम् अन्तो वै महदन्तस्तृतीयमहस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
घृतेन द्यावापृथिवी अभीवृते इति द्यावापृथिवीयं घृतश्रिया घृतपृचा घृतावृधेति पुनरावृत्तं पुनर्निनृत्तं तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
Haug
Ghritena dyāvā pṛithivî (6, 70) is the (Nivid) hymn for Dyāvāpṛithivî. It contains the words ghṛitaśriyā, ghṛita pṛichā, ghṛitavṛidhā, in which there is a repetition (because the word ghṛita is three times repeated) and the consonance of the terminating vowels (because there is three times â at the end), which are characteristics of the third day.
मूलम्
घृतेन द्यावापृथिवी अभीवृते इति द्यावापृथिवीयं घृतश्रिया घृतपृचा घृतावृधेति पुनरावृत्तं पुनर्निनृत्तं तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवं रथस्त्रिचक्र इति त्रिवत्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
Haug
Anaśvo jātô anabhîśur (4, 36) is the (Nivid) hymn for the Ribhus. It contains, in the words rathas trichakraḥ, the term “three” (tri), which is a characteristic of the third day.
मूलम्
अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवं रथस्त्रिचक्र इति त्रिवत्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
परावतो ये दिधिषन्त आप्यमिति वैश्वदेवमन्तो वै परावतो ऽन्तस्तृतीयमहस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
Haug
Parāvato ye didhiṣanta (10, 63) is the (Nivid) hymn for the Viśvedevāḥ. Because the word anta (the end) is to be found in the word paravatô (atô in the strong form antô), and the third day is an end (an object).
मूलम्
परावतो ये दिधिषन्त आप्यमिति वैश्वदेवमन्तो वै परावतो ऽन्तस्तृतीयमहस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
तदु गायमेतेन वै गयः प्लातो विश्वेषां देवानां प्रियं धामोपागच्छत्स परमं लोकमजयत् उप विश्वेषां देवानां प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद ।
Haug
This is the Gayasûkta, by which Gaya, the son of Plata, obtained the favour of the Viśvedevāḥ and conquered the highest world. He who has this knowledge obtains the favour of the Viśvedevāḥ and conquers the highest world.
मूलम्
तदु गायमेतेन वै गयः प्लातो विश्वेषां देवानां प्रियं धामोपागच्छत्स परमं लोकमजयत् उप विश्वेषां देवानां प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद ।
विश्वास-प्रस्तुतिः
वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणा ऽन्तस्तृतीयमहस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
Haug
Vaiśvānarāya dhiṣaṇām (3, 2) is the beginning of the Agnimāruta Śāstra. The anta (end) is in diṣaṇā (but the t is wanting). The third day is also an “end” (to a Tryaha or period of three days).
मूलम्
वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणा ऽन्तस्तृतीयमहस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
धारावरा मरुतो धृष्ण्वोजस इति मारुतं बह्वभिव्याहृत्यमन्तो वै बह्वन्तस्तृतियमहस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
Haug
Dhārāvarā marutô (2, 34) is the (Nivid) hymn for the Marutas. Here by anta is the plural (most of the nominatives of this verse are in the plural) to be understood, because the plural is the end (the last among the terminations, following the singular and dual). The third day is also the end (of the Tryaha).
मूलम्
धारावरा मरुतो धृष्ण्वोजस इति मारुतं बह्वभिव्याहृत्यमन्तो वै बह्वन्तस्तृतियमहस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।
Haug
Jātavedase sunavāma (1, 99, 1) is the constant verse for Jātavedas.
मूलम्
जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।
विश्वास-प्रस्तुतिः
त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति जातवेदस्यं पुरस्तादुदर्कं तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
Haug
Tvam agne prathamo aṅgirā (1, 31) is the (Nivid) hymn for Jātavedas, where each verse begins by the same words (tvam agne), which is a characteristic of the third day.
मूलम्
त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति जातवेदस्यं पुरस्तादुदर्कं तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
त्वं त्वमित्युत्तरं त्र्यहमभिवदति संतत्यै ।
Haug
By repeating tvam tvam (in every verse), the Hotar alludes to the following three days (from the fourth to the sixth) for connecting (both series of three days).
मूलम्
त्वं त्वमित्युत्तरं त्र्यहमभिवदति संतत्यै ।
विश्वास-प्रस्तुतिः
संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति ।
Haug
Those who, with such a knowledge, repeat (at the end of the last Śāstra of the third day a hymn every verse of which contains the term tvam) have both series of three days performed without interruption and breach.
मूलम्
संततैस्त्र्यहैरव्यवच्छिन्नैर्यन्ति य एवं विद्वांसो यन्ति ।