०२

यो जात एव प्रथमो मनस्वानिति सूक्तं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रुपां तदु सजनीयमेतद्वा इन्द्र स्येन्द्रि यं यत्सजनीयमेतस्मिन्वै शस्यमान इन्द्र मिन्द्रि यमाविशति तद्धाप्याहुश्छन्दोगास्तृतीयेऽहनि बह्वृचा इन्द्र स्येन्द्रि यं शंसन्तीति तदु गार्त्समदमेतेन वै गृत्समद इन्द्र स्य प्रियं धामोपागछत्स परमं लोकमजयदुपेन्द्रस्य प्रियं धाम गछति जयति परमं लोकं य एवं वेद तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ रा-थंतरेऽहनि तृतीयेऽहनि तृतीयस्याह्नो रूपं तद्देवस्य सवितुर्वार्यम्महदिति सावित्रमन्तो वै महदन्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं घृतेन द्यावापृथिवी अभीवृते इति द्यावापृथिवीयं घिऋतश्रिया घृतपृचा घृतावृधेति पुनरावृत्तम्पुनर्निनृत्तां तृतीयेऽहनि तृतीयस्याह्नो रूपमनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम्रथस्त्रिचक्र इति त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपम्परावतो ये दिधिषन्त आप्यमिति वैश्वदेवमन्तो वै परावतोऽन्तस्तृतीयमहस्तृतीयेऽहनि-ऽतृतीयस्याह्नो रूपं तदु गायमेतेन वै गयः प्लातो विश्वेषां देवानाम्पृयं धामोपागछत्स परमं लोकमजयदुप विश्वेषां देवानाम्प्रियं धाम गछति जयति परमं लोकं य एवं वेद वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणान्तस्तृतीयमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं धारावरा मरुतो धृष्ण्वोजस इति मारुतम्बह्वभिव्याहृत्यमन्तो वै बह्वन्तस्तृतियमहस्तृतीयेऽहनि तृतीयस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता त्वमग्ने प्रथमो अङ्गिरा ऋषिरिति जातवेदस्यम्पुरस्तादुदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपं त्वंत्वमित्युत्तरं त्र्यहमभिवदति संतत्यै संततैस्त्र्! यहैरव्यवछिन्नैर्यन्ति य एवं

विद्वांसो यन्ति २