विश्वे वै देवा देवतास्तृतीयमहर्वहन्ति सप्तदशः स्तोमो वैरूपं साम जगती छन्दो यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद यद्वै समानोदर्कं तत्तृतीयस्याह्नो रूपं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्नुउऋत्तं यद्र तवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोकोऽभ्युदितो यद्वैरूपं यज्जागतं यत्कृतमेतानि वै तृतीयस्याह्नो रूपाणि युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिवेति तृतीयस्याह्न आज्यम्भवति देवा वै तृतीयेनाह्ना स्वर्गं लोकमायंस्तानसुरा रक्षांस्यन्ववारयन्त ते विरूपा भवत विरूपा भवतेति भवन्त आयंस्ते यद्विरूपा भवत विरूपा भवतेति भवन्त आयंस्तद्वैरूपं सामाभवत्तद्वैरूपस्य वैरूपत्वं विरूपः पाप्मना भूत्वा पाप्मा-नमपहते य एवं वेद तान्ह स्मान्वेवागछन्ति समेव सृज्यन्ते तानश्वा भूत्वा पद्भिरपाघ्नत यदश्वा भूत्वा पद्भिरपाघ्नत तदश्वानामश्वत्वमश्नुते यद्यत्कामयते य एवं वेद तस्मादश्वः पशूनां जविष्ठस्तस्मादश्वः प्रत्यङ्पदा हिनस्त्यप पाप्मानं हते य एवं वेद तस्मादेतदश्ववदाज्यम्भवति तृतीयेऽहनि तृतीयस्याह्नो रूपं वायवा याहि वीतये वायो याहि शिवा दिव इन्द्र श्च वायवेषां सुतानामा मित्रे वरुणे वयमश्विनावेह गछतमा याह्यद्रि भिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रिया प्रियास्वित्यौष्णिहम्प्रउगं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपं तं-तमिद्रा धसे महे त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ निनृत्तव-त्त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपमिन्द्र नेदीय एदिहीत्यच्युतः प्रगाथः प्र नूनम्ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यो निनृत्तवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपम-ग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्याप इति धाय्या अच्युता नकिः सुदासो रथम्पर्यास न रीरमदिति मरुत्वतीयः प्रगाथः पर्यस्तवांस्तृतीयेऽहनि तृतीय-स्याह्नो रूपं त्र्यर्यमा मनुषो देवतातेति सूक्तं त्रिवत्तृतीयेऽहनि तृतीयस्याह्नो रूपं यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति वैरूपम्पृष्ठम्भवति राथंतरेऽहनि तॄतियेऽहनि तृतीयस्याह्नो रूपं यद्वावानेति धाय्याच्युताभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेनेन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवांस्तृतीयेऽहनि तृतीयस्याह्नो रूपं त्यमू षु वाजिनं देवजूतमिति
तार्क्ष्योऽच्युतः १