०१

विश्वास-प्रस्तुतिः

विश्वे वै देवा देवतास्तृतीयमहर्वहन्ति सप्तदशः स्तोमो वैरूपं साम जगती छन्दः ।

Haug

(The Characteristics and Śastras of the Third and Fourth Days of the Dvâdaśâha)

(The Characteristics of the Third-Day. The Śastras of the Morning and Midday Libations)

The leading deities of the third day are the Viśvedevāḥ; its (leading) Stoma is the so-called Saptadaśa (seventeen-fold), its Sāman the Vairûpam, its metre the Jagatî.

मूलम्

विश्वे वै देवा देवतास्तृतीयमहर्वहन्ति सप्तदशः स्तोमो वैरूपं साम जगती छन्दः ।

विश्वास-प्रस्तुतिः

यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद ।

Haug

He who knows what deity, what Stoma, what Sāman, what metre (are required on the third day), becomes successful by it.

मूलम्

यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद ।

विश्वास-प्रस्तुतिः

यद्वै समानोदर्कं तत्तृतीयस्याह्नो रूपं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोको ऽभ्युद्रितो यद्वैरूपं यज्जागतं यत्कृतमेतानि वै तृतीयस्याह्नो रूपाणि ।

Haug

What hymn has a refrain, that is a characteristic of the third day. Other characteristics are : āśva horse, anta end, repetition, (punarāvṛitti) consonance (in the ending vowels), cohabitation, the term “covered, closed,” (paryasta), the term three, what has the form of anta (end), the mentioning of the deity in the last pada, an allusion to that world, the Vairûpam Sāman, the Jagatî metre, the past tense.

मूलम्

यद्वै समानोदर्कं तत्तृतीयस्याह्नो रूपं यदश्ववद्यदन्तवद्यत्पुनरावृत्तं यत्पुनर्निनृत्तं यद्रतवद्यत्पर्यस्तवद्यत्त्रिवद्यदन्तरूपं यदुत्तमे पदे देवता निरुच्यते यदसौ लोको ऽभ्युद्रितो यद्वैरूपं यज्जागतं यत्कृतमेतानि वै तृतीयस्याह्नो रूपाणि ।

विश्वास-प्रस्तुतिः

युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिवेति तृतीयस्याह्न आज्यं भवति ।

Haug

The Ajya Śāstra is, yukṣvā hi devahûtamân (8, 64).

मूलम्

युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिवेति तृतीयस्याह्न आज्यं भवति ।

विश्वास-प्रस्तुतिः

देवा वै तृतीयेनाह्ना स्वर्गं लोकमायंस्तानसुरा रक्षांस्यन्ववारयन्त ।

Haug

The gods went to heaven by means of the third day. The Asuras (and) Rākṣas prevented them (from entering it).

मूलम्

देवा वै तृतीयेनाह्ना स्वर्गं लोकमायंस्तानसुरा रक्षांस्यन्ववारयन्त ।

विश्वास-प्रस्तुतिः

ते विरूपा भवत विरूपा भवतेति ।

Haug

They said (to the Asuras), “Become deformed, become deformed” (virûpā);

मूलम्

ते विरूपा भवत विरूपा भवतेति ।

विश्वास-प्रस्तुतिः

भवन्त आयंस्ते यद्विरूपा भवत विरूपा भवतेति भवन्त आयंस्तद्वैरूपं सामाभवत्तद्वैरूपस्य वैरूपत्वम् ।

Haug

when the Asuras were becoming deformed, the Devas entered (heaven). This produced the Sāman called Vairûpam, thence it is called so (from virûpa deformed).

मूलम्

भवन्त आयंस्ते यद्विरूपा भवत विरूपा भवतेति भवन्त आयंस्तद्वैरूपं सामाभवत्तद्वैरूपस्य वैरूपत्वम् ।

विश्वास-प्रस्तुतिः

विरूपः पाप्मना भूत्वा पाप्मानमपहते य एवं वेद ।

Haug

He who has become deformed in consequence of his own guilt, destroys it (his deformity) by means of this knowledge.

मूलम्

विरूपः पाप्मना भूत्वा पाप्मानमपहते य एवं वेद ।

विश्वास-प्रस्तुतिः

तान्ह स्मान्वेवा ऽऽगच्छन्ति समेव सृज्यन्ते तानश्वा भूत्वा पद्भिरपाघ्नत ।

Haug

The Asuras persecuted the Devas again, and came into contact with them. The Devas turned horses (aśva) and kicked them with their feet.

मूलम्

तान्ह स्मान्वेवा ऽऽगच्छन्ति समेव सृज्यन्ते तानश्वा भूत्वा पद्भिरपाघ्नत ।

विश्वास-प्रस्तुतिः

यदश्वा भूत्वा पद्भिरपाघ्नत तदश्वानामश्वत्वम् ।

Haug

Thence the horses are called aśva (from to reach).

मूलम्

यदश्वा भूत्वा पद्भिरपाघ्नत तदश्वानामश्वत्वम् ।

विश्वास-प्रस्तुतिः

अश्नुते यद्यत्कामयते य एवं वेद ।

Haug

He who knows this obtains (aśnute) all he desires.

मूलम्

अश्नुते यद्यत्कामयते य एवं वेद ।

विश्वास-प्रस्तुतिः

तस्मादश्वः पशूनां जविष्ठस्तस्मादश्वः प्रत्यङ् पदा हिनस्ति अप पाप्मानं हते य एवं वेद ।

Haug

Thence the horse is the swiftest of animals, because of its kicking with the hind legs. He who has such a knowledge destroys the consequences of guilt.

मूलम्

तस्मादश्वः पशूनां जविष्ठस्तस्मादश्वः प्रत्यङ् पदा हिनस्ति अप पाप्मानं हते य एवं वेद ।

विश्वास-प्रस्तुतिः

तस्मादेतदश्ववदाज्यं भवति तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

Haug

This is the reason that the Ajya hymn on the third day contains the term aśva horse, which is a characteristic of the third day.

मूलम्

तस्मादेतदश्ववदाज्यं भवति तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

वायवायाहि वीतये वायो याहि शिवा दिव इन्द्रश्च वायवेषां सुतानामा मित्रे वरुणे वयमश्विनावेह गच्छतमा याह्यद्रिभिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रिया प्रियास्वित्यौष्णिहं प्रउगं समानोदर्कं तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

Haug

The Pra-uga Śāstra consists of the following triplets : vāyavâyāhi vîtaye (5, 51, 5-7) vāyo yāhi śivād (8, 26, 23-25), indraś cha vāyav eṣām sutānām (5, 51, 6-8), ā mitre varuṇe vayam (5, 72, 1-3), aśvināveha gachhatām (5, 75, 7-9), āyāhy adribhiḥ (5, 40, 1-3), sajûr devebhir vîśvebhir (7, 34, 15-17), uta naḥ priyâ (6, 61 10-12). They are in the Uṣṇih metre, have a refrain (samānodarkam), which is a characteristic of the third day.

मूलम्

वायवायाहि वीतये वायो याहि शिवा दिव इन्द्रश्च वायवेषां सुतानामा मित्रे वरुणे वयमश्विनावेह गच्छतमा याह्यद्रिभिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रिया प्रियास्वित्यौष्णिहं प्रउगं समानोदर्कं तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ निनृत्तवत्त्रिवत्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

Haug

Tam tam id rādhase (8, 57, 7-9), traya indrasya Soma (8, 2, 7-9) are the beginning and the sequel of the Marutvatîya Śāstra, which contain the terms, nṛtā, i.e., consonance (8, 57, 7) and traya, i.e., three, which are characteristics of the third day.

मूलम्

तं तमिद्राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ निनृत्तवत्त्रिवत्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

इन्द्र नेदीय एदिहीत्यच्युतः प्रगाथः ।

Haug

Indra nedîya (Vāl. 5, 5-6) is the constant (Indra-Nihāva) pragāthaḥ.[1]

Haug - Notes

[1]Sâyaṇa explains punarninritam as follows : पुनर्निनृतं स्वरविशेषेणाक्षराणां, पुनः पुनराव्वर्तनेन वा नर्तनतादृश्यं. This clearly expresses what we call consonance; the recurrence of the same vowel at the end is compared to the movements of a dancer (ninrittam).

मूलम्

इन्द्र नेदीय एदिहीत्यच्युतः प्रगाथः ।

विश्वास-प्रस्तुतिः

प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यो निनृत्तवांस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

Haug

Pranûnam Brahmaṇaspatir (1, 40, 5-6) is the Brāhmaṇaspatya Pragātha which has a consonance (of vowels), is a characteristic of the third day.

मूलम्

प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यो निनृत्तवांस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्याप इति धाय्या अच्युताः ।

Haug

Agnir netā (3, 20, 4), tvaṁ Soma kratubhiḥ (1, 91, 2), and pinvanty apo (1, 64, 6) are the immovable Dhāyyās.

मूलम्

अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्याप इति धाय्या अच्युताः ।

विश्वास-प्रस्तुतिः

नकिः सुदासो रथं पर्यास न रीरमदिति मरुत्वतीयः प्रगाथः पर्यस्तवांस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

Haug

Nakiḥ Sudāso ratham (7, 32, 10) is the Marutvatîya Pragātha, which contains the term prayasta, i.e., covered, closed.

मूलम्

नकिः सुदासो रथं पर्यास न रीरमदिति मरुत्वतीयः प्रगाथः पर्यस्तवांस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

त्र्यर्यमा मनुषो देवतातेति सूक्तं त्रिवत्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

Haug

Tryaryamā manuṣo devatātā (5, 29) is the (Nivid) hymn (for the Marutvatîya Śāstra); it contains the term “three.”

मूलम्

त्र्यर्यमा मनुषो देवतातेति सूक्तं त्रिवत्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति वैरूपं पृष्ठं भवति राथंतरे ऽहनि तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

Haug

Yad dyāva indra (8, 59, 5-6), yad indra yāvatas (7, 32, 18-19) form the Vairûpam Pṛiṣṭham on the third day, which is a Rathantara day, which is a characteristic of the third day.

मूलम्

यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति वैरूपं पृष्ठं भवति राथंतरे ऽहनि तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

यद्वावानेति धाय्या ऽच्युता ।

Haug

Yad vāvāna (10, 74, 6) is the constant Dhāyyā.

मूलम्

यद्वावानेति धाय्या ऽच्युता ।

विश्वास-प्रस्तुतिः

अभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेन ।

Haug

By repeating (after this Dhāyyā) : abhi tvā śûra nonumaḥ (7, 32, 22-23) the Hotar turns back the womb (of this day), because this (third) day is, as to its position, a Rathantara day which Sāman is, therefore, the womb of it.

मूलम्

अभि त्वा शूर नोनुम इति रथंतरस्य योनिमनु निवर्तयति राथंतरं ह्येतदहरायतनेन ।

विश्वास-प्रस्तुतिः

इन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवांस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

Haug

Indra tridhātu śaraṇam (6, 46, 9-10) is the Sāma Pragātha; it contains the term “three” (in tridhāta).

मूलम्

इन्द्र त्रिधातु शरणमिति सामप्रगाथस्त्रिवांस्तृतीये ऽहनि तृतीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।

Haug

Tyam û ṣu vājinam (10, 178) is the constant Tārkṣya.

मूलम्

त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।