या त ऊतिरवमा या परमेति सूक्तं जहि वृष्ण्यानि कृणुही पराच इति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सत्पतिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हतेऽहनि द्वितीयेऽहनि द्वितीयस्याह्नो रूपमुदुष्य देवः सविता हिरण्ययेति सावित्रमूर्ध्ववद्द्वि-तीयेऽहनि द्वितीयस्याह्नो रूपं ते हि द्यावपृथिवी विश्वशम्भुवेति द्यावापृथिवीयं सुजन्मनी धिषणे अन्तरीयत इत्यन्तर्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं तक्षन्रथं सुवृतं विद्मनापस इत्यार्भवं तक्षन्हरि इन्द्र वाहा वृषण्वसू इति वृषण्व-द्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं यज्ञस्य वो रथ्यं विश्पतिं विशामिति वैश्वदेवं वृषा केतुर्यजतो द्यामशायतेति वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं तदु शार्यातमङ्गिरसो वै स्वर्गाय लोकाय सत्रमासत ते ह स्म द्वितीयं-द्वितीयमेवाहरागत्य मुह्यन्ति तान्वा एतच्छार्यातो मानवो द्वितीयेऽहनि सूक्तमशंसयत्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकं तद्यदेतत्सूक्तं द्वितीयेऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै पृक्षस्य वृष्णो अरुषस्य नू सह इत्याग्निमारुतस्य प्रतिपद्वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं वृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृषण्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याच्युता यज्ञेन वर्धत जातवेदसमिति जातवेदस्यं वृधन्वद्द्वितीयेऽहनि द्वितीयस्याह्नो रूपमह्नो रूपम् ३२
५
इति चतुर्थपञ्चिका समाप्ता पञ्चिका ५