३२

विश्वास-प्रस्तुतिः

या त ऊतिरवमा या परमेति सूक्तं जहि वृष्ण्यानि कृणुही पराच इति वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

Haug

(The Remainder of the Niṣkevalya Śastra and the Śastras of the Evening Libation on the Second Day)

The (Nivid) hymn (of the Niṣkevalya Śastra) is, ya ta ūtīr avamā (6, 25); it contains the term vṛiṣan, in the word vṛiṣṇyāni (6, 25, 3), which term is a characteristic of the second day.

मूलम्

या त ऊतिरवमा या परमेति सूक्तं जहि वृष्ण्यानि कृणुही पराच इति वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सप्ततिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हते ऽहनि द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

Haug

The Pratipad of the Vaiśvadeva Śastra is, viśvo devasya netus (5, 50, 1), and tat savitur vareṇyam (3, 62, 10-11), the Anuchara (sequel) is, ā viśvadevam satpatim (5, 82, 7-9). It belongs to the Bṛihat day, and is thus a characteristic of the second day (which is a Bṛihat day).

मूलम्

विश्वो देवस्य नेतुस्तत्सवितुर्वरेण्यमा विश्वदेवं सप्ततिमिति वैश्वदेवस्य प्रतिपदनुचरौ बार्हते ऽहनि द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

उदु ष्य देवः सविता हिरण्ययेति सावित्रमूर्ध्ववद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

Haug

The (Nivid) hymn for Savitar is, ud u Ṣya devaḥ savitā (6, 71); it contains the term “up upwards” (in ut), which is a characteristic of the second day.

मूलम्

उदु ष्य देवः सविता हिरण्ययेति सावित्रमूर्ध्ववद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

ते हि द्यावपृथिवी विश्वशम्भुवेति द्यावापृथिवीयं सुजन्मनी धिषणे अन्तरीयत इत्यन्तर्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

Haug

The Nivid hymn for Dyāvāpṛithivī is, te hi dyāvāpṛithivī (1, 160); it contains the term antar, which is a characteristic of the second day.

मूलम्

ते हि द्यावपृथिवी विश्वशम्भुवेति द्यावापृथिवीयं सुजन्मनी धिषणे अन्तरीयत इत्यन्तर्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तक्षन्रथं सुवृतं विद्मनापस इत्यार्भवं तक्षन्हरी इन्द्र वाहा वृषण्वसू इति वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

Haug

The (Nivid) hymn for the Ribhus is, takṣan ratham (1, 111), it contains the term vṛiṣan, in the word vṛiṣanvasū, which is a characteristic of the second day.

मूलम्

तक्षन्रथं सुवृतं विद्मनापस इत्यार्भवं तक्षन्हरी इन्द्र वाहा वृषण्वसू इति वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

यज्ञस्य वो रथ्यं विश्पतिं विशामिति वैश्वदेवं वृषाकेतुर्यजतो द्यामशायतेति वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

Haug

The (Nivid) hymn for the Viśvedevāḥ is, yajñasya yo rathyam (10, 92); it contains the term vṛiṣā in the words vṛiṣā ketur, which is a characteristic of the second day.

मूलम्

यज्ञस्य वो रथ्यं विश्पतिं विशामिति वैश्वदेवं वृषाकेतुर्यजतो द्यामशायतेति वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

तदु शार्यातम् ।

Haug

This hymn is by Śāryāta.

मूलम्

तदु शार्यातम् ।

विश्वास-प्रस्तुतिः

अङ्गिरसो वै स्वर्गाय लोकाय सत्रमासत ते ह स्म द्वितीयं द्वितीयमेवाहरागत्य मुह्यन्ति ।

Haug

As the Angiras were engaged in a sacrificial session for going to heaven, they became always confounded (in their recitations) as often as they were going to perform the ceremonies of the second day (of the Śaḷaha).

मूलम्

अङ्गिरसो वै स्वर्गाय लोकाय सत्रमासत ते ह स्म द्वितीयं द्वितीयमेवाहरागत्य मुह्यन्ति ।

विश्वास-प्रस्तुतिः

तान्वा एतच्छार्यातो मानवो द्वितीये ऽहनि सूक्तमशंसयत् ।

Haug

Śāryāta, the son of Manu, made them repeat the hymn, yajñasya rathyam on the second day, whereupon they got aware of the sacrifice (the sacrificial personage), and (by means of it) of the celestial world.

मूलम्

तान्वा एतच्छार्यातो मानवो द्वितीये ऽहनि सूक्तमशंसयत् ।

विश्वास-प्रस्तुतिः

ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम् ।

Haug

The reason that the Hotar repeats this hymn on the second day is (to help the sacrificer), to get aware of the sacrifice, and consequently to see the celestial world (of which he wishes to became an inhabitant).

मूलम्

ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम् ।

विश्वास-प्रस्तुतिः

तद्यदेतत्सूक्तं द्वितीये ऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै ।

Haug

The Pratipad (beginning) of the Agnimāruta Śastra is, pṛikṣasya vṛiṣṇo (6, 8); it contains the term vṛiṣan, which is a characteristic of the second day.

मूलम्

तद्यदेतत्सूक्तं द्वितीये ऽहनि शंसति यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै ।

विश्वास-प्रस्तुतिः

पृक्षस्य वृष्णो अरुषस्य नू सह इत्याग्निमारुतस्य प्रतिपद्वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

Haug

The (Nivid) hymn for the Marutas in the Agnimāruta Śastra is, vṛiṣṇe śardhāya (1, 64); it contains the term vṛiṣan, which is a characteristic of the second day.

मूलम्

पृक्षस्य वृष्णो अरुषस्य नू सह इत्याग्निमारुतस्य प्रतिपद्वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

वृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

Haug

The constant Jātavedās verse is, Jātavedase sunavāma.

मूलम्

वृष्णे शर्धाय सुमखाय वेधस इति मारुतं वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।

विश्वास-प्रस्तुतिः

जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।

Haug

The (Nivid) hymn for Jātavedās is yajñena vardhata (2, 2); it contains the term vṛidh, which is a characteristic of the second day.

मूलम्

जातवेदसे सुनवाम सोममिति जातवेदस्या ऽच्युता ।

विश्वास-प्रस्तुतिः

यज्ञेन वर्धत जातवेदसमिति जातवेदस्यं वृधन्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपमह्नो रूपम् ।

मूलम्

यज्ञेन वर्धत जातवेदसमिति जातवेदस्यं वृधन्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपमह्नो रूपम् ।