विश्वास-प्रस्तुतिः
इन्द्रो वै देवता द्वितीयमहर्वहति पञ्चदशस्तोमो बृहत्साम त्रिष्टुप्छन्दः ।
Haug
(The Characteristics of the Second Day of the Dvâdaśâha. The Śastras of the Morning and Midday Libations. Story of Sâryâta, the son of Manu)
Indra is the leading deity of the second day, the Stoma (required) is the fifteen-fold (Pañchadaśa), the Sâman is Bṛihat Sâman, the metre is Triṣṭubh.
मूलम्
इन्द्रो वै देवता द्वितीयमहर्वहति पञ्चदशस्तोमो बृहत्साम त्रिष्टुप्छन्दः ।
विश्वास-प्रस्तुतिः
यथादेवतमेनेन यथास्तोमं यथासाम यथा छन्दसं राध्नोति य एवं वेद ।
Haug
He who knows what deity, what Stoma, what Sâman, what metre (are required on the second day), becomes successful by it.
मूलम्
यथादेवतमेनेन यथास्तोमं यथासाम यथा छन्दसं राध्नोति य एवं वेद ।
विश्वास-प्रस्तुतिः
यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपम् ।
Haug
On the second day, neither ā nor pra (the characteristics of the first day) are used, but sthā (derivations from this root) “to stand,” is the characteristic.
मूलम्
यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाणि ।
Other characteristics of the second day are, ūrdhva upwards, prati towards, antar in, between,* vṛiṣan male, vṛidhan growing, the deities mentioned (by their names) in the second pada, the allusion to the airy region, what has the nature of the Bṛihat Sāman, what has the nature of the Triṣṭubh the present tense[4].
Haug - Notes
[4]The word for “present tense” in the original is kurvat, which is the participle of the present tense of the root kri to make. That it cannot have any other meaning, undoubtedly follows from the application of this term to the hymn agnim dutam vriṇmahe, in the whole of which there is nowhere any present tense or present participle of the root kri, but present tenses of other verbs.
मूलम्
यदूर्ध्ववद्यत्प्रतिवद्यदन्तर्वद्यद्वृषण्वद्यद्वृधन्वद्यन्मध्यमे पदे देवता निरुच्यते यदन्तरिक्षमभ्युदितं यद्बार्हतं यत्त्रैष्टुभं यत्कुर्वदेतानि वै द्वितीयस्याह्नो रूपाणि ।
विश्वास-प्रस्तुतिः
अग्निं दूतं वृणीमह इति द्वितीयस्याह्न आज्यं भवति कुर्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
Haug
The Ajya (hymn) of the second day is, agnim dūtam vṛiṇīmahe (1, 12); this contains the present tense (in vṛiṇīmahe), which is a characteristic of the second day.
मूलम्
अग्निं दूतं वृणीमह इति द्वितीयस्याह्न आज्यं भवति कुर्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
वायो ये ते सहस्रिण इति प्रउगं सुतः सोम ऋतावृधेति वृधन्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
Haug
The pra-uga Śastra is, vāyo ye te sahasriṇo (2, 41); it contains the term vṛidhan growing, increasing, in the words sutaḥ soma ṛitā ṛidha (2, 41, 4), which is a characteristic of the second day.
मूलम्
वायो ये ते सहस्रिण इति प्रउगं सुतः सोम ऋतावृधेति वृधन्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ वृधन्वच्चान्तर्वच्च द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
Haug
The Pratipad (beginning) of the Marutvatīya Śastra is, viśvānarasya vaspatiṁ (8, 57, 4-6), and its Anuchara (sequel), indra it Somapā (8, 2, 4-6). They contain the terms vṛidhan (8, 57, 5) and antar (8, 2, 5), which are characteristics of the second day.
मूलम्
विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ वृधन्वच्चान्तर्वच्च द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्र नेदीय एदिहीत्यच्युतः प्रगाथः ।
Haug
The constant (Indra-Nihava) Pragātha is, indra nedīya edîhi.
मूलम्
इन्द्र नेदीय एदिहीत्यच्युतः प्रगाथः ।
विश्वास-प्रस्तुतिः
उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्य ऊर्ध्ववान्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
Haug
The Brahmaṇaspati Pragātha is, uttiṣṭha brahmaṇaspate; it contains the term ūrdhva up, upwards, (in the word uttiṣṭha, i.e., rise), which is a characteristic of the second day.
मूलम्
उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्य ऊर्ध्ववान्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्या अच्युताः ।
Haug
The constant Dhāyyās are, agnir netā tvam soma kratubhiḥ, pinvanty apaḥ.
मूलम्
अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्या अच्युताः ।
विश्वास-प्रस्तुतिः
बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो येन ज्योतिरजनयन्नृतावृध इति वृधन्वान्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
Haug
The Marutvatīya Pargātha is, bṛihad indrāya gāyata (8, 87, 1-2); it contains the term vṛidhan increasing, in the word ṛitarridhā.
मूलम्
बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो येन ज्योतिरजनयन्नृतावृध इति वृधन्वान्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्र सोमं सोमपते पिबेममिति सूक्तं सजोषा रुद्रैस्तृपदा वृषस्वेति वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
Haug
The (Nivid) hymn (of the Marutvatīya Śastra) is, indra somam somapate (3, 32); it contains the term vṛiṣan in the word ā vriṣasva “gather strength” (show yourself as a male 3, 32, 2), which is a characteristic of the second day.
मूलम्
इन्द्र सोमं सोमपते पिबेममिति सूक्तं सजोषा रुद्रैस्तृपदा वृषस्वेति वृषण्वद्द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति बार्हते ऽहनि द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
Haug
The Bṛihat Pṛiṣṭham (i. e., Stotriyam, and Anurūpam) is tvâm iddhi havāmahe (6, 46, 1-2) and tvam hyehi cherave (8, 50, 7-8); (this is done) on the Bārhata day,[5] of which kind the second day is (the use of the Bṛihat pṛiṣṭha), being a characteristic of the second day.
Haug - Notes
[5]The Bârh ata days are the second, fourth, and sixth.
मूलम्
त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहत्पृष्ठं भवति बार्हते ऽहनि द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यद्वावानेति धाय्या ऽच्युता ।
Haug
The constant Dhāyyā (of the Niṣkevalya Śastra) is, yad vāvāna.
मूलम्
यद्वावानेति धाय्या ऽच्युता ।
विश्वास-प्रस्तुतिः
उभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हते ऽहनि द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
Haug
The Sāma Pragātha is, ubhayam śṛiṇavachcha (8, 50, 1-2); (the term ubhayam, i. e. both) means, what is today and what was yesterday. It belongs to the Bṛihat Sāman, which is a charateristic of the second day.
मूलम्
उभयं शृणवच्च न इति सामप्रगाथो यच्चेदमद्य यदु च ह्य आसीदिति बार्हते ऽहनि द्वितीये ऽहनि द्वितीयस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।
Haug
The constant Tārkṣya is, tyam ū ṣu vājinam.
मूलम्
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यो ऽच्युतः ।