आ न इन्द्रो दूरादा न आसादिति सूक्तमेति प्रथमेऽहनि प्रथमस्याह्नो रूपं सम्पातौ भवतो निष्केवल्यमरुत्वतीययोर्निविद्धाने वामदेवो वा इमाँ ल्लोकान-पश्यत्तान्सम्पातैः समपतद्यत्सम्पातैः समपतत्तत्सम्पातानां सम्पातत्वं तद्य-त्सम्पातौ प्रथमेऽहनि शंसति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै तत्स-वितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ राथंतरेऽहनि प्रथमेऽहनि प्रथमस्याह्नो रूपं युञ्जते मन उत युञ्जते धिय इति सावित्रं युक्तवत्प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्र द्यावा यज्ञैः पृथिवी ऋतावृधेति द्यावापृथिवीयम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपमिहेह वो मनसा बन्धुता नर इत्यार्भवं यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपं तद्यत्प्रेति सर्वमभ-विष्यत्प्रैष्यन्नेवास्माल्लोकाद्यजमाना इति तद्यदिहेह वो मनसा बन्धुता नर इत्यार्भवम्प्रथमेऽहनि शंसत्ययं वै लोक इहेहास्मिन्नेवैनांस्तल्लोके रमयति देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवम्प्रथमे पदे देवता निरुच्यन्ते प्रथमेऽहनि प्रथमस्याह्नो रूपम्महान्तं वा एतेऽध्वानमेष्यन्तो भवन्ति ये संवत्सरं वा द्वादशाहं वासते तद्यद्देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेव-म्प्रथमेऽहनि शंसति स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद येषां चैवं विद्वानेतद्धोता देवान्हुवे बृहच्छ्रवसः स्वस्तय इति वैश्वदेवम्प्रथमेऽहनि शंसति वैश्वानराय पृथुपाजसे विप इत्याग्निमारुतस्य प्रतिपत्प्रथमे पदे देवता निरुच्यते प्रथमेऽहनि प्रथमस्याह्नो रूपम्प्रत्वक्षसो प्रतवसो विरप्शिन इति मारुतम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं जातवेदसे सुनवाम सोममिति जातवेदस्याम्पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्याः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते स्वस्ति संवत्सरस्य पार-मश्नुते य एवं वेद प्र तव्यसीं नव्यसीं धीतिमग्नय इति जातवेदस्यम्प्रेति प्रथमेऽहनि प्रथमस्याह्नो रूपं समानमाग्निमारुतम्भवति यच्चाग्निष्टोमे यद्वै यज्ञे
समानं क्रियते तत्प्रजा अनुसमनन्ति तस्मात्समानमाग्निमारुतम्भवति ३०