विश्वास-प्रस्तुतिः
अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्स्तोमो रथंतरं साम गायत्री छन्दः ।
Haug
(The Two First Days of the Dvîdaśâha Sacrifice)
(The Śastras of the Morning and Midday Libations on the First Day.)
Agni is the leading deity of the first day. The Stoma (required) is Trivṛit (the nine-fold), the Sâman Rathantaram, the metre Gâyatrî.
मूलम्
अग्निर्वै देवता प्रथममहर्वहति त्रिवृत्स्तोमो रथंतरं साम गायत्री छन्दः ।
विश्वास-प्रस्तुतिः
यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद ।
Haug
He who knows what deity, what Stoma, what Sâman, what metre (are required on the first day), becomes successful by it.
मूलम्
यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसं राध्नोति य एवं वेद ।
विश्वास-प्रस्तुतिः
यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपम् ।
Haug
The words â and pra are the characteristics of the first day.
मूलम्
यद्वा एति च प्रेति च तत्प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोको ऽभ्युदितो यद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाणि ।
Haug
(Further) characteristics of this day are : yukta joined, ratha carriage, âśu swift, pâ to drink, the mentioning of the deities in the first padas (of the verses repeated) by their very names, the allusion to this world (earth), Sâmans akin to Rathantaram, metres akin to Gâyatrî, the future of kṛi to make.
मूलम्
यद्युक्तवद्यद्रथवद्यदाशुमद्यत्पिबवद्यत्प्रथमे पदे देवता निरुच्यते यदयं लोको ऽभ्युदितो यद्राथंतरं यद्गायत्रं यत्करिष्यदेतानि वै प्रथमस्याह्नो रूपाणि ।
विश्वास-प्रस्तुतिः
उप प्रयन्तो अध्वरमिति प्रथमस्याह्न आज्यं भवति प्रेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Ajya hymn of the first day is, upa prayanto adhvaram (1, 74); for it contains the term pra, which is a characteristic of the first day.
मूलम्
उप प्रयन्तो अध्वरमिति प्रथमस्याह्न आज्यं भवति प्रेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
वायवा याहि दर्शतेति प्रउगमेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Pra-uga Śastram is, vâyavâyâhi darśateme (1, 2-3); for it contains the term â, a characteristic of the first day.
मूलम्
वायवा याहि दर्शतेति प्रउगमेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच्च पिबवच्च प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Pratipad (beginning) of the Marutvatîya Śâstra is, â tvâ ratham yathotaye (8, 57, 1-3) ; its Anuchara (sequel), idaṁ vaso sutam andhaḥ (8, 2, 1-3); they contain the terms ratha and piba (drink), which are characteristics of the first day.
मूलम्
आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ रथवच्च पिबवच्च प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
इन्द्र नेदीय एदिहीतीन्द्रनिहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Indra-Nihava Pragâtha is, indra nedîya ed ihi (Vâlakh. 5, 5-6); here the deity is mentioned in the first pada, which is a characteristic of the first day.
मूलम्
इन्द्र नेदीय एदिहीतीन्द्रनिहवः प्रगाथः प्रथमे पदे देवता निरुच्यते प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Brâhmaṇaspatya Pragâtha is, praitu Brahmaṇaspatiḥ (1, 40, 3-4); it contains the term pra, which is a characteristic of the first day.
मूलम्
प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः प्रेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Dhâyyâs are, agnir netâ, tvaṁ Soma kratubhiḥ, pinvanty apaḥ (Ait. Br. 3, 18); here are the deities mentioned in the first padas, which is a characteristic of the first day.
मूलम्
अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः प्रथमेषु पदेषु देवता निरुच्यन्ते प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
प्र व इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Marutvatîya Pragâtha is, prava indrâya bṛihate (8, 78, 3-4); it contains the term pra, which is a characteristic of the first day.
मूलम्
प्र व इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः प्रेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
आ यात्विन्द्रो वस उप न इति सूक्तमेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The (Nivid) hymn is, â yâtv indro vase (4, 21); it contains the term â, which is a characteristic of the first day.
मूलम्
आ यात्विन्द्रो वस उप न इति सूक्तमेति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
अभि त्वा शूर नोनुमो ऽभि त्वा पूर्व पीतय इति रथंतरं पृष्ठं भवति राथंतरे ऽहनि प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
(Niṣkevalya Śastra)
The Rathantara Pṛiṣṭham is, abhi tvâ śûra nonumo (7, 32, 22-23) and abhi tvâ pûrvapîtaye (8, 3, 7-8); (this is done) at a Rathantara day, of which characteristic the first day is.
मूलम्
अभि त्वा शूर नोनुमो ऽभि त्वा पूर्व पीतय इति रथंतरं पृष्ठं भवति राथंतरे ऽहनि प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
यद्वावान पुरुतमं पुराषाळिति धाय्या ऽऽवृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Dhâyyâ is, yad vâvâna (Ait. Br. 3, 22); it contains the term â, which is a characteristic of the first day.
मूलम्
यद्वावान पुरुतमं पुराषाळिति धाय्या ऽऽवृत्रहेन्द्रो नामान्यप्रा इत्येति प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
Haug
The Sâma Pragâtha is, piba sutasya (8, 3, 1-2); it contains the term piba, “ drink,” which is a characteristic of the first day.
मूलम्
पिबा सुतस्य रसिन इति सामप्रगाथः पिबवान्प्रथमे ऽहनि प्रथमस्याह्नो रूपम् ।
विश्वास-प्रस्तुतिः
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यं पुरस्तात्सूक्तस्य शंसति ।
Haug
The Târkṣyam is, tyam û ṣu râjinam (Ait. Br. 4, 20). The Hotar repeats it before the (Nivid) hymn of the Niṣkevalya Śâstra).
मूलम्
त्यमू षु वाजिनं देवजूतमिति तार्क्ष्यं पुरस्तात्सूक्तस्य शंसति ।
विश्वास-प्रस्तुतिः
स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते ।
Haug
The Târkṣyam is safe journey. (It is repeated) for securing safety.
मूलम्
स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते ।
विश्वास-प्रस्तुतिः
स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद ।
Haug
He who has such a knowledge makes his journey in safety and reaches the end of the year in safety.
मूलम्
स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद ।