विश्वास-प्रस्तुतिः
बृहच्च वा इदमग्रे रथंतरं चा ऽऽस्तां वाक्च वै तन्मनश्चा ऽऽस्तां वाग्वै रथंतरं मनो बृहत् ।
Haug
(On the Sâma Pṛiṣṭhas.)[6]
At the beginning, there were Bṛihat and Rathantaram; through them there were Speech and Mind. Rathantaram is Speech, Bṛihat is Mind.
Haug - Notes
[6]See page 214.
मूलम्
बृहच्च वा इदमग्रे रथंतरं चा ऽऽस्तां वाक्च वै तन्मनश्चा ऽऽस्तां वाग्वै रथंतरं मनो बृहत् ।
विश्वास-प्रस्तुतिः
तद्बृहत्पूर्वं ससृजानं रथंतरमत्यमन्यत तद्रथंतरं गर्भमधत्त तद्वैरूपमसृजत ।
Haug
Bṛihat being first created, thought Rathantaram to be inferior; the Rathantaram put an embryo in its body and brought forth Vairûpam.
मूलम्
तद्बृहत्पूर्वं ससृजानं रथंतरमत्यमन्यत तद्रथंतरं गर्भमधत्त तद्वैरूपमसृजत ।
विश्वास-प्रस्तुतिः
ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येतां तद्बृहद्गर्भमधत्त तद्वैराजमसृजत ।
Haug
These two, Rathantaram and Vairûpam joined, thought Bṛihat to be inferior to them; Bṛihat put an embryo in its own body, whence the Vairâjam was produced.
मूलम्
ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येतां तद्बृहद्गर्भमधत्त तद्वैराजमसृजत ।
विश्वास-प्रस्तुतिः
ते द्वे भूत्वा बृहच्च वैराजं च रथंतरं च वैरूपं चात्यमन्येतां तद्रथंतरं गर्भमधत्त तच्छाक्वरमसृजत ।
Haug
These two, Bṛihat and Vairâjam joined, thought Rathantaram and Vairûpam to be inferior to them. Rathantaram then put an embryo in its body, whence the Śâkvaram was produced.
मूलम्
ते द्वे भूत्वा बृहच्च वैराजं च रथंतरं च वैरूपं चात्यमन्येतां तद्रथंतरं गर्भमधत्त तच्छाक्वरमसृजत ।
विश्वास-प्रस्तुतिः
तानि त्रीणि भूत्वा रथंतरं च वैरूपं च शाक्वरं च बृहच्च वैराजं चात्यमन्यन्त तद्बृहद्गर्भमधत्त तद्रैवतमसृजत ।
Haug
These three, Rathantaram, Vairûpam, and Śâkvaram thought Bṛihat and Vairâjam to be inferior to them. Bṛihat then put an embryo in its body, whence the Raivatam was produced.
मूलम्
तानि त्रीणि भूत्वा रथंतरं च वैरूपं च शाक्वरं च बृहच्च वैराजं चात्यमन्यन्त तद्बृहद्गर्भमधत्त तद्रैवतमसृजत ।
विश्वास-प्रस्तुतिः
तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्पृष्ठान्यासन् तानि ह तर्हि त्रीणि च्छन्दांसि षट्पृष्ठानि नोदाप्नुवन् ।
Haug
These three Sâmans on each side (Rathantaram, Vairûpam, Śâkvaram, and Bṛihat, Vairâjam, Raivatam) became the six Pṛiṣṭhas.[7] At this (time, when the Sâma Pṛiṣṭhas originated) the three metres (Gâyatrî, Triṣṭubh, and Jagatî) were unable to get hold of these six Pṛiṣṭhas.
Haug - Notes
[7]The purport of this paragraph is to show why on certain days of the Dvâdaśâha the Rathantara Sâman, and on others the Bṛihat Sâman, is required for forming a Pṛiṣṭha with another Sâman. See on these different Sâmans 4, 13.
मूलम्
तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्पृष्ठान्यासन् तानि ह तर्हि त्रीणि च्छन्दांसि षट्पृष्ठानि नोदाप्नुवन् ।
विश्वास-प्रस्तुतिः
सा गायत्री गर्भमधत्त सा ऽनुष्टुभमसृजत त्रिष्टुब्गर्भमधत्त सा पङ्क्तिमसृजत जगती गर्भमधत्त सा ऽतिच्छन्दसमसृजत ।
Haug
Gâyatrî put an embryo in herself and produced Anuṣṭubh. Triṣṭubh put an embryo in herself and produced Paṅkti. Jagatî put an embryo in herself and produced the Atichhandas (metres).
मूलम्
सा गायत्री गर्भमधत्त सा ऽनुष्टुभमसृजत त्रिष्टुब्गर्भमधत्त सा पङ्क्तिमसृजत जगती गर्भमधत्त सा ऽतिच्छन्दसमसृजत ।
विश्वास-प्रस्तुतिः
तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्छन्दांस्यासन्षट्पृष्ठानि तानि तथा ऽकल्पन्त ।
Haug
The three metres having thus become six, were thus able to hold the six Pṛiṣṭhas.
मूलम्
तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्छन्दांस्यासन्षट्पृष्ठानि तानि तथा ऽकल्पन्त ।
विश्वास-प्रस्तुतिः
कल्पते यज्ञो ऽपि तस्यै जनतायै कल्पते यत्रैवमेतां छन्दसां च पृष्ठानां च कॢप्तिं विद्वान्दीक्षते दीक्षते ।
Haug
The sacrifice of him becomes (well) performed and (also) becomes well performed for the whole assemblage (of sacrificer), who at this occasion takes his Dîkṣâ when knowing this production of the metres and Pṛiṣṭhas.
मूलम्
कल्पते यज्ञो ऽपि तस्यै जनतायै कल्पते यत्रैवमेतां छन्दसां च पृष्ठानां च कॢप्तिं विद्वान्दीक्षते दीक्षते ।