बृहच्च वा इदमग्रे रथंतरं चास्तां वाक्च वै तन्मनश्चास्तां वाग्वै रथंतरम्मनो बृहत्तद्बृहत्पूर्वं ससृजानं रथंतरमत्यमन्यत तद्र थंतरं गर्भमधत्त तद्वैरूपमसृजत ते द्वे भूत्वा रथंतरं च वैरूपं च बृहदत्यमन्येतां तद्बृहद्गर्भमधत्त तद्वैराजमसृजत ते द्वे भूत्वा बृहच्च वैराजं च रथंतरं च वैरूपञ्चात्यमन्येतां तद्र थंतरं गर्भमधत्त तच्छाक्वरमसृजत तानि त्रीणि भूत्व रथंतरं च वैरूपञ्च शाक्वरं च बृहच्च वैराजं चात्यमन्यन्त तद्बृहद्गर्भमधत्त तद्रै वतमसृजत तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्पृष्ठान्यासंस्तानि ह तर्हि त्रीणि छन्दांसि षट्पृष्ठानि नोदाप्नुवन्सा गायत्री गर्भमधत्त सानुष्टुभमसृजत त्रिष्टुब्गर्भमधत्त सा पन्क्तिमसृजत जगती गर्भमधत्त सातिछन्दसमसृजत तानि त्रीण्यन्यानि त्रीण्यन्यानि षट्छन्दांस्या-सन्षट्पृष्ठानि तानि तथाकल्पन्त कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते
यत्रैवमेतां छन्दसां च पृष्ठानां च कॢप्तिं विद्वान्दीक्षते दीक्षते २८
४