२७

छन्दांसि वा अन्योन्यस्यायतनमभ्यध्यायन्गायत्री त्रिष्टुभश्च जगत्यै चायतनम-भ्यध्यायत्त्रिष्टुब्गायत्र्यै च जगत्यै च जगती गायत्र्यै च त्रिष्टुभश्च ततो वा एतम्प्रजापतिर्व्यूळ्हछन्दसं द्वादशाहमपश्यत्तमाहरत्तेनायजत तेन स सर्वा-न्कामांश्छन्दांस्यगमयत्सर्वान्कामान्गछति य एवं वेद छन्दांसि व्यूहत्ययात-यामतायै छन्दांस्येव व्यूहति तद्यथादोऽश्वैर्वानळुद्भिर्वान्यैरन्यैरश्रान्ततरैरश्रा-न्ततरैरुपविमोकं यान्त्येवमेवैतच्छन्दोभिरन्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकं स्वर्गं लोकम्यन्ति यच्छन्दांसि व्यूहतीमौ वै लोकौ सहास्तां तौ व्यैतां नावर्षन्न समतपत्ते पञ्चजना न समजानत तौ देवाः समनयंस्तौ संयन्तावेतं देवविवाहं व्यवहेतां रथंतरेणैवेयममूं जिन्वति बृहतासाविमां नौधसेनैवेयममूं जिन्वति श्यैतेनासाविमां धूमेनैवेयममूं जिन्वति वृष्ट्यासाविमां देवयजनमेवेयममुष्यामदधात्पशूनसावस्यामेतद्वा इयममुष्यां देवयजनमदधाद्यदेतच्चन्द्र मसि कृष्णमिव तस्मादापूर्यमाणपक्षेषु यजन्त एतदेवोपेप्सन्त ऊषानसावस्यां तद्धापि तुरःकावषेय उवाचोषः पोषो जनमेजयकेति तस्माद्धाप्येतर्हि गव्य-म्मीमांसमानाः पृछन्ति सन्ति तत्रोषाः इति ऊषो हि पोषोऽसौ वै लोक इमं लोकमभिपर्यावर्तत ततो वै द्यावापृथिवी अभवतां न द्यावान्तरिक्षान्नान्तरिक्षाद्भूमिः २७