२६

दीक्षा वै देवेभ्योऽपाक्रामत्तां वासन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां वासन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां ग्रैष्माभ्यां तां वार्षिकाभ्यां तां शारदाभ्यां तां हैमन्तिकाभ्याम्मासाभ्यामन्वयुञ्जत तां हैमन्तिकाभ्याम्मासाभ्यां नोदाप्नुवंस्तां शैशिराभ्याम्माआभ्यामन्वयुञ्जत तां शैशिराभ्याम्मासाभ्या-माप्नुवन्नाप्नोति यमीप्सति नैनं द्विषन्नाप्नोति य एवं वेद तस्माद्यं सत्रिया दीक्षोपनमेदेतयोरेव शैशिरयोर्मासयोरागतयोर्दीक्षेत साक्षादेव तद्दीक्षायामा-गतायान्दीक्षते प्रत्यक्षाद्दीक्षाम्परिगृह्णाति तस्मादेतयोरेव शैशिरयोर्मासयो-रागतयोर्ये चैव ग्राम्याः पशवो ये चारण्या अणिमानमेव तत्परुषिमाणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते स पुरस्ताद्दीक्षायाः प्राजापत्यम्पशुमालभते तस्य सप्तदश सामिधेनीरनुब्रूयात्सप्तदशो वै प्रजापतिः प्रजापतेराप्त्यै तस्याप्रियो जामदग्न्यो भवन्ति तदाहुर्यदन्येषु पशुषु यथऋष्याप्रियो भवन्त्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः सर्वरूप एष पशुः सर्वसमृद्धस्तद्यज्जामदग्न्यो भवन्ति सर्वरूपतायै सर्वसमृद्ध्यै तस्य वायव्यः पशुपुरोळाशो भवति तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्माद्वायव्यः पशुपुरोळाशः क्रियत इति प्रजापतिर्वै यज्ञो यज्ञस्यायातया-मताया इति ब्रूयाद्यदु वायव्यस्तेन प्रजापतेर्नैति वायुर्ह्येव प्रजापति-स्तदुक्तमृषिणा पवमानः प्रजापतिरिति सत्रमु चेत्संन्युप्याग्नीन्यजेरन्सर्वे दीक्षेरन्सर्वे सुनुयुर्वसन्तमभ्युदवस्यत्यूर्ग्वै वसन्त इषमेव तदूर्जमभ्युदवस्यति २६