२५

विश्वास-प्रस्तुतिः

प्रजापतियज्ञो वा एष यद्द्वादशाहः ।

Haug

(Prajāpati Instituted the Dvādaśāha. The Nature of this Sacrifice. By Whom it should be Performed.)

The Dvādaśāha is Prajāpati’s sacrifice.

मूलम्

प्रजापतियज्ञो वा एष यद्द्वादशाहः ।

विश्वास-प्रस्तुतिः

प्रजापतिर्वा एतेनाग्रे ऽयजत द्वादशाहेन ।

Haug

At the beginning, Prajāpati sacrificed with it.

मूलम्

प्रजापतिर्वा एतेनाग्रे ऽयजत द्वादशाहेन ।

विश्वास-प्रस्तुतिः

सो ऽब्रवीदृतूंश्च मासांश्च याजयत मा द्वादशाहेनेति ।

Haug

He said to the Seasons and Months, “Make me sacrifice with the Dvādaśāha (i.e., initiate me for this sacrifice).”

मूलम्

सो ऽब्रवीदृतूंश्च मासांश्च याजयत मा द्वादशाहेनेति ।

विश्वास-प्रस्तुतिः

तं दीक्षयित्वा ऽनपक्रमं गमयित्वा ऽब्रुवन्देहि नु नो ऽथ त्वा याजयिष्याम इति ।

Haug

After having performed on him the Dîkṣā ceremony, and prevented him from leaving (when walking in the sacrificial compound) they said to him, “Now give us (first something), then we shall make the sacrifice.”

मूलम्

तं दीक्षयित्वा ऽनपक्रमं गमयित्वा ऽब्रुवन्देहि नु नो ऽथ त्वा याजयिष्याम इति ।

विश्वास-प्रस्तुतिः

तेभ्य इषमूर्जं प्रायच्छत् ।

Haug

He granted them food, and juice (milk, &c.).

मूलम्

तेभ्य इषमूर्जं प्रायच्छत् ।

विश्वास-प्रस्तुतिः

सैषोर्गृतुषु च मासेषु च निहिता ।

Haug

Just this juice is put in the Seasons and Months.

मूलम्

सैषोर्गृतुषु च मासेषु च निहिता ।

विश्वास-प्रस्तुतिः

ददतं वै ते तमयाजयन् ।

Haug

When he granted them that, then they made him sacrifice.

मूलम्

ददतं वै ते तमयाजयन् ।

विश्वास-प्रस्तुतिः

तस्माद्ददद्याज्यः ।

Haug

This is the reason that only the man who can afford to give something is fit for performing this sacrifice.

मूलम्

तस्माद्ददद्याज्यः ।

विश्वास-प्रस्तुतिः

प्रतिगृह्णन्तो वै ते तमयाजयन् ।

Haug

When receiving his gifts, they (the Seasons and Months) made him (Prajāpati) sacrifice.

मूलम्

प्रतिगृह्णन्तो वै ते तमयाजयन् ।

विश्वास-प्रस्तुतिः

तस्मात्प्रतिगृह्णता याज्यम् ।

Haug

Thence must he who receives gifts, sacrifice for another.

मूलम्

तस्मात्प्रतिगृह्णता याज्यम् ।

विश्वास-प्रस्तुतिः

उभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ।

Haug

Thus both parties succeed those who, having such a knowledge, bring sacrifices for others, as well as those who have them performed for themselves.

मूलम्

उभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च ।

विश्वास-प्रस्तुतिः

ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य ।

Haug

The Seasons and Months felt themselves burdened, as it were (with guilt), for having accepted at the Dvādaśāha (which they performed for Prajāpati) a reward.

मूलम्

ते वा इम ऋतवश्च मासाश्च गुरव इवामन्यन्त द्वादशाहे प्रतिगृह्य ।

विश्वास-प्रस्तुतिः

ते ऽब्रुवन्प्रजापतिं याजय नो द्वादशाहेनेति ।

Haug

They said to Prajāpati, “Make us (also) sacrifice with the Dvādaśāha.”

मूलम्

ते ऽब्रुवन्प्रजापतिं याजय नो द्वादशाहेनेति ।

विश्वास-प्रस्तुतिः

स तथेत्यब्रवीत्ते वै दीक्षध्वमिति ।

Haug

He consented and said to them, “Become ye initiated (take the Dîkṣā)!”

मूलम्

स तथेत्यब्रवीत्ते वै दीक्षध्वमिति ।

विश्वास-प्रस्तुतिः

ते पूर्वपक्षाः पूर्वे ऽदीक्षन्त ते पाप्मानमपाहत ।

Haug

The deities residing in the first (the so-called bright) half of the months first underwent the Dîkṣā ceremony, and thus removed the consequences of guilt.

मूलम्

ते पूर्वपक्षाः पूर्वे ऽदीक्षन्त ते पाप्मानमपाहत ।

विश्वास-प्रस्तुतिः

तस्मात्ते दिवेव दिवेव ह्यपहतपाप्मानः ।

Haug

Thence they are in the daylight as it were; for those who have their guilt (really) removed, are in the daylight, as it were (may appear everywhere).

मूलम्

तस्मात्ते दिवेव दिवेव ह्यपहतपाप्मानः ।

विश्वास-प्रस्तुतिः

अपरपक्षा अपरे ऽदीक्षन्त ।

Haug

The deities residing in the second half (of the months) afterwards underwent the Dîkṣā.

मूलम्

अपरपक्षा अपरे ऽदीक्षन्त ।

विश्वास-प्रस्तुतिः

ते नतरां पाप्मानमपाहत ।

Haug

But they (could) not wholly remove the evil consequences of guilt.

मूलम्

ते नतरां पाप्मानमपाहत ।

विश्वास-प्रस्तुतिः

तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानः ।

Haug

Thence they are darkness, as it were; for those who have their guilt not removed are darkness, as it were (comparable to it).

मूलम्

तस्मात्ते तम इव तम इव ह्यनपहतपाप्मानः ।

विश्वास-प्रस्तुतिः

तस्मादेवं विद्वान्दीक्षमाणेषु पूर्वः पूर्व एव दिदीक्षिषेत ।

Haug

Thence he who has this knowledge ought to have performed his Dîkṣā first and in the first half (of the month).

मूलम्

तस्मादेवं विद्वान्दीक्षमाणेषु पूर्वः पूर्व एव दिदीक्षिषेत ।

विश्वास-प्रस्तुतिः

अप पाप्मानं हते य एवं वेद ।

Haug

He who has such a knowledge, thus removes (all) guilt from himself.

मूलम्

अप पाप्मानं हते य एवं वेद ।

विश्वास-प्रस्तुतिः

स वा अयं प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत् ।

Haug

It was Prajāpati who, as the year, resided in the year, the seasons, and months.

मूलम्

स वा अयं प्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत् ।

विश्वास-प्रस्तुतिः

ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एते ऽन्यो ऽन्यस्मिन्प्रतिष्ठिता ।

Haug

The seasons and months thus resided (also) in Prajāpati as the year. Thus they mutually reside in one another.

मूलम्

ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठंस्त एते ऽन्यो ऽन्यस्मिन्प्रतिष्ठिता ।

विश्वास-प्रस्तुतिः

एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते ।

Haug

He who has the Dvādaśāha performed for himself resides in the priest (who performs it for him).

मूलम्

एवं ह वाव स ऋत्विजि प्रतितिष्ठति यो द्वादशाहेन यजते ।

विश्वास-प्रस्तुतिः

तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन नेदयं मयि प्रतितिष्ठादिति ।

Haug

Thence they (the priests) say, “No sinner is fit for having the Dvādaśāha sacrifice performed, nor should such an one reside in me.”

मूलम्

तस्मादाहुर्न पापः पुरुषो याज्यो द्वादशाहेन नेदयं मयि प्रतितिष्ठादिति ।

विश्वास-प्रस्तुतिः

ज्येष्ठयज्ञो वा एष यद्द्वादशाहः ।

Haug

The Dvādaśāha is the sacrifice for the first-born.

मूलम्

ज्येष्ठयज्ञो वा एष यद्द्वादशाहः ।

विश्वास-प्रस्तुतिः

स वै देवानां ज्येष्ठो य एतेनाग्रे ऽयजत ।

Haug

He who first had the Dvādaśāha performed (became) the first-born among the gods.

मूलम्

स वै देवानां ज्येष्ठो य एतेनाग्रे ऽयजत ।

विश्वास-प्रस्तुतिः

श्रेष्ठयज्ञो वा एष यद्द्वादशाहः ।

Haug

It is the sacrifice for a leader (a śreṣṭha).

मूलम्

श्रेष्ठयज्ञो वा एष यद्द्वादशाहः ।

विश्वास-प्रस्तुतिः

स वै देवानां श्रेष्ठो य एतेनाग्रे ऽयजत ।

Haug

He who first performed it (became) the leader among the gods.

मूलम्

स वै देवानां श्रेष्ठो य एतेनाग्रे ऽयजत ।

विश्वास-प्रस्तुतिः

ज्येष्ठः श्रेष्ठो यजेत कल्याणीह समा भवति ।

Haug

The first-born, the leader (of his family or tribe) ought to perform it (alone); then happiness lasts (all the year) in this (the place where it is performed).

मूलम्

ज्येष्ठः श्रेष्ठो यजेत कल्याणीह समा भवति ।

विश्वास-प्रस्तुतिः

न पापः पुरुषो याज्यो द्वादशाहेन नेदयं मयि प्रतितिष्ठदिति ।

Haug

(They say) “No sinner ought to have the Dvādaśāha sacrifice performed; no such one should reside in me (the priest).”

मूलम्

न पापः पुरुषो याज्यो द्वादशाहेन नेदयं मयि प्रतितिष्ठदिति ।

विश्वास-प्रस्तुतिः

इन्द्राय वै देवा ज्यैष्ठ्याय श्रैष्ठ्याय नातिष्ठन्त ।

Haug

The gods (once upon a time) did not acknowledge that Indra had the right of primogeniture and leadership.

मूलम्

इन्द्राय वै देवा ज्यैष्ठ्याय श्रैष्ठ्याय नातिष्ठन्त ।

विश्वास-प्रस्तुतिः

सो ऽब्रवीद्बृहस्पतिं याजय मा द्वादशाहेनेति ।

Haug

He said to Bṛihaspati, “Bring for me the Dvādaśāha sacrifice.”

मूलम्

सो ऽब्रवीद्बृहस्पतिं याजय मा द्वादशाहेनेति ।

विश्वास-प्रस्तुतिः

तमयाजयत्ततो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त ।

Haug

He complied with his wish. Thereupon the gods acknowledged Indra’s right of primogeniture and leadership.

मूलम्

तमयाजयत्ततो वै तस्मै देवा ज्यैष्ठ्याय श्रैष्ठ्यायातिष्ठन्त ।

विश्वास-प्रस्तुतिः

तिष्ठन्ते ऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय समस्मिन्स्वाः श्रेष्ठतायां जानते य एवं वेद ।

Haug

He who has such a knowledge, is acknowledged as the first-born and leader. All his relations agree as (to his right) to the leadership.

मूलम्

तिष्ठन्ते ऽस्मै स्वा ज्यैष्ठ्याय श्रैष्ठ्याय समस्मिन्स्वाः श्रेष्ठतायां जानते य एवं वेद ।

विश्वास-प्रस्तुतिः

ऊर्ध्वो वै प्रथमस्त्र्यहस्तिर्यङ्मध्यमो ऽर्वाङुत्तमः ।

Haug

The first three (Soma) days (of the Dvādaśāha) are ascending (i.e., the metres required are from the morning to the evening libation increasing in number); the middle three (Soma) days are crossed, (i. e., there is no regular order of increase nor decrease in the number of syllables of the metres); the last three (Soma) days are descending (i.e., the number of syllables of the metres from the morning to the evening libations is decreasing).[2]

Haug - Notes

[2]Here are the nine principal days of the Dvādaśāha sacrifice mentioned. They constitute the Navarātra, i.e., sacrifice lasting for nine nights (and days). It consists of three Tryahas, i.e., three days’ performance of the Soma sacrifice. The order of metres on the first three days is, at the morning libation. Gāyatrî (twenty-four syllables); at the midday libation, Triṣṭubh (forty-four syllables); at the evening libation, Jagatî (forty-eight syllables). On the middle three days the order of metres is, Jagatî, Gâyatrî, and Triṣṭubh, and on the last three days, Triṣṭubh, Jagatî, and Gâyatrî.

मूलम्

ऊर्ध्वो वै प्रथमस्त्र्यहस्तिर्यङ्मध्यमो ऽर्वाङुत्तमः ।

विश्वास-प्रस्तुतिः

स यदूर्ध्वः प्रथमस्त्र्यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत ऊर्ध्वा ह्येतस्य दिक् ।

Haug

On account of the (metres of the) first three days (tryaha) being ascending, the fire blazes up, for the upward region belongs to the fire.

मूलम्

स यदूर्ध्वः प्रथमस्त्र्यहस्तस्मादयमग्निरूर्ध्व उद्दीप्यत ऊर्ध्वा ह्येतस्य दिक् ।

विश्वास-प्रस्तुतिः

यत्तिर्यङ्मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिक् ।

Haug

On account of the (metres of the) middle three days being crossed, the wind blows across; the wind moves across (the other regions), and the waters flow (also) across; for the region which is across (the others) belongs to the wind.

मूलम्

यत्तिर्यङ्मध्यमस्तस्मादयं वायुस्तिर्यङ्पवते तिरश्चीरापो वहन्ति तिरश्ची ह्येतस्य दिक् ।

विश्वास-प्रस्तुतिः

यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वाङ्वर्षत्यर्वाञ्चि नक्षत्राण्यार्वाची ह्येतस्य दिक् ।

Haug

On account of (the metres of) the three last days being descending, that one (the sun) burns downwards (sending his rays down), the rain falls down, (and) the constellations (in heaven) send (their light) down. For the region which goes down belongs to the sun.

मूलम्

यदर्वाङुत्तमस्तस्मादसावर्वाङ्तपत्यर्वाङ्वर्षत्यर्वाञ्चि नक्षत्राण्यार्वाची ह्येतस्य दिक् ।

विश्वास-प्रस्तुतिः

सम्यञ्चो वा इमे लोकाः सम्यञ्च एते त्र्यहाः ।

Haug

The three worlds belong together, so do these three Tryahas.

मूलम्

सम्यञ्चो वा इमे लोकाः सम्यञ्च एते त्र्यहाः ।

विश्वास-प्रस्तुतिः

सम्यञ्चो ऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद ।

Haug

These (three) worlds jointly shine to the fortune of him who has such a knowledge.

मूलम्

सम्यञ्चो ऽस्मा इमे लोकाः श्रियै दीद्यति य एवं वेद ।