२४

विश्वास-प्रस्तुतिः

त्रयश्च वा एते त्र्यहा आदशममहरा द्वावतिरात्रौ यद्द्वादशाहः ।

Haug

(On the Different Parts, and the Duration of the Dvādaśāha Sacrifice. On the Bṛihatī Nature of this Sacrifice. The Nature of the Bṛihatī.)

The Dvādaśāha consists of three Tryahas (a sacrificial performance lasting for three days) together with the “tenth day” and the two Atirātras.

मूलम्

त्रयश्च वा एते त्र्यहा आदशममहरा द्वावतिरात्रौ यद्द्वादशाहः ।

विश्वास-प्रस्तुतिः

द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति ।

Haug

After having undergone the Dîkṣā ceremony (the initiation) during twelve days, one becomes fit for performing (this) sacrifice.

मूलम्

द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति ।

विश्वास-प्रस्तुतिः

द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते ।

Haug

During twelve nights he undergoes the Upasads[1] (fasting). By means of them, he shakes off (all guilt) from his body.

Haug - Notes

[1]He keeps the fasting connected with the Upasad ceremony. At this occasion he must live on milk alone. The Upasads are, at the Dvâdaśâha, performed during four days, on each day thrice, that makes twelve. See about them 1, 25.

मूलम्

द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते ।

विश्वास-प्रस्तुतिः

द्वादशाहं प्रसुतः भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद ।

Haug

He who has such a knowledge, becomes purified and clean, and enters the deities, after having during (these) twelve days been born anew and shaken off (all guilt) from his body.

मूलम्

द्वादशाहं प्रसुतः भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद ।

विश्वास-प्रस्तुतिः

षट्त्रिंशदहो वा एष यद्द्वादशाहः ।

Haug

The Dvādaśāha consists (on the whole) of thirty-six days.

मूलम्

षट्त्रिंशदहो वा एष यद्द्वादशाहः ।

विश्वास-प्रस्तुतिः

षट्त्रिंशदक्षरा वै बृहती ।

Haug

The Bṛihatī has thirty-six syllables.

मूलम्

षट्त्रिंशदक्षरा वै बृहती ।

विश्वास-प्रस्तुतिः

बृहत्या वा एतदयनं यद्द्वादशाहः ।

Haug

The Dvādaśāha is the sphere for the Bṛihatī (in which she is moving).

मूलम्

बृहत्या वा एतदयनं यद्द्वादशाहः ।

विश्वास-प्रस्तुतिः

बृहत्या वै देवा इमाँल्लोकानाश्नुवत ।

Haug

By means of the Bṛihatī, the gods obtained (all) these worlds;

मूलम्

बृहत्या वै देवा इमाँल्लोकानाश्नुवत ।

विश्वास-प्रस्तुतिः

ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षं दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँल्लोके प्रत्यतिष्ठन् ।

Haug

for by ten syllables they they reached this world (the earth), by (other) ten they reached the air, by (other) ten the sky, by four they reached the four directions, and by two they gained a firm footing in this world.

मूलम्

ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षं दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँल्लोके प्रत्यतिष्ठन् ।

विश्वास-प्रस्तुतिः

प्रतितिष्ठति य एवं वेद ।

Haug

He who has such a knowledge, secures a firm footing (for himself).

मूलम्

प्रतितिष्ठति य एवं वेद ।

विश्वास-प्रस्तुतिः

तदाहुर्यदन्यानि च्छन्दांसि वर्षीयांसि भूयो ऽक्षरतराण्यथ कस्मादेतां बृहतीत्याचक्षत इति ।

Haug

About this they (the theologians) ask, How is it, that this (particular metre of thirty-six syllables) is called Bṛihatī, i.e., the great one, there being other metres which are stronger, and exceed the (Bṛihatī) in number of syllables ?

मूलम्

तदाहुर्यदन्यानि च्छन्दांसि वर्षीयांसि भूयो ऽक्षरतराण्यथ कस्मादेतां बृहतीत्याचक्षत इति ।

विश्वास-प्रस्तुतिः

एतया हि देवा इमाँल्लोकानाश्नुवत ।

Haug

(The answer is) It is called so on account of the gods having reached by means of it (all) these worlds,

मूलम्

एतया हि देवा इमाँल्लोकानाश्नुवत ।

विश्वास-प्रस्तुतिः

ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षं दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते ।

Haug

by ten syllables, this world (the earth), by (other) ten they reached the air, by (other) ten the sky, by four they reached the four directions, and by two they gained a firm footing in this world. Therefore they call it Brihati.

मूलम्

ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षं दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँल्लोके प्रत्यतिष्ठंस्तस्मादेतां बृहतीत्याचक्षते ।

विश्वास-प्रस्तुतिः

अश्नुते यद्यत्कामयते य एवं वेद ।

Haug

He who has such a knowledge, obtains anything he might desire.

मूलम्

अश्नुते यद्यत्कामयते य एवं वेद ।