त्रयश्च वा एते त्र्यहा आ दशममहरा द्वावतिरात्रौ यद्द्वादशाहो द्वादशाहानि दीक्षितो भवति यज्ञिय एव तैर्भवति द्वादश रात्रीरुपसद उपैति शरीरमेव ताभिर्धूनुते द्वादशाहम्प्रसुतो भूत्वा शरीरं धूत्वा शुद्धः पूतो देवता अप्येति य एवं वेद षट्त्रिंशदहो वा एष यद्द्वादशाहः षट्त्रिंशदक्षरा वै बृहती बृहत्या वा एतदयनं यद्द्वादशाहो बृहत्या वै देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षन्दशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके प्रत्यतिष्ठन्प्रतितिष्ठति य एवं वेद तदाहुर्यदन्यानि छन्दांसि वर्षीयांसि भूयोऽक्षरतराण्यथ कस्मादेताम्बृहतीत्याचक्षत इत्येतया हि देवा इमाँ ल्लोकानाश्नुवत ते वै दशभिरेवाक्षरैरिमं लोकमाश्नुवत दशभिरन्तरिक्षंशभिर्दिवं चतुर्भिश्चतस्रो दिशो द्वाभ्यामेवास्मिँ ल्लोके
प्रत्यतिष्ठंस्तस्मादेताम्बृहतीत्याचक्षतेऽश्नुते यद्यत्कामयते य एवं वेद २४