यथा वै पुरुष एवं विषुवांस्तस्य यथा दक्षिणोऽर्ध एवम्पूर्वोऽर्धो विषुवतो यथोत्तरोऽर्ध एवमुत्तरोऽर्धो विषुवतस्तस्मादुत्तर इत्याचक्षते प्रबाहुक्सतः शिर एव विषुवान्बिदलसंहित इव वै पुरुषस्तद्धापि स्यूमेव मध्ये शीर्ष्णो विज्ञायते तदाहुर्विषुवत्येवैतदहः शंसेद्विषुवान्वा एतदुक्थानामुक्थं विषुवान्विषुवानिति ह विषुवन्तो भवन्ति श्रेष्ठतामश्नुवत इति तत्तन्नादृत्यं संवत्सर एव शंसेद्रे तो वा एतत्संवत्सरं दधतो यन्ति यानि वै पुरा संवत्सराद्रे तांसि जायन्ते यानि पञ्चमास्यानि यानि षण्मास्यानि स्रीव्यन्ति वै तानि न वै तैर्भुञ्जतेऽथ यान्येव दशमास्यानि जायन्ते यानि सांवत्सरिकाणि तैर्भुञ्जते तस्मात्संवत्सर एवैतदहः शंसेत्संवत्सरो ह्येतदहराप्नोति संवत्सरं ह्येतदहराप्नुवन्त्येष ह वै संवत्सरेण पाप्मानमपहतैष विषुवताङ्गेभ्यो हैव मासैःपाप्मानमपहते शीर्ष्णो विषुवतप संवत्सरेण पाप्मानं हलेऽप विषुवत य एवं वेद वैश्वकर्मणमृषभं सवनीयस्योपालम्भ्यमालभेरन्द्विरूपमुभयत एतम्महाव्रतीयेऽहनीन्द्रो वै वृत्रं हत्व विश्वकर्माभवत्प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माभवत्संवत्सरो विश्व-कर्मेन्द्र मेव तदात्मानम्प्रजापतिं संवत्सरं विश्वकर्माणमाप्नुवन्तीन्द्र एव तदात्मनि प्रजापतौ संवत्सरे विश्वकर्मण्यन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद य
एवं वेद २२
३