२१

आहूय दूरोहणं रोहति स्वर्गो वै लोको दूरोहनं वागाहावो ब्रह्म वै वाक् स यदाह्वयते तद्ब्रह्मणाहावेन स्वर्गं लोकं रोहति स पच्छः प्रथमं रोहतीमं तल्लोकमाप्नोत्यथार्धर्चशोऽन्तरिक्षं तदाप्नोत्यथ त्रिपद्यामुं तल्लोकमाप्नोत्यथ केवल्या तदेतस्मिन्प्रतितिष्ठति य एष तपति त्रिपद्या प्रत्यवरोहति यथा शाखां धारयमाणस्तदमुष्मिँ ल्लोके प्रतितिष्ठत्यर्धर्चशोऽन्तरिक्षे पच्छोऽस्मिँ ल्लोक आप्त्वैव तत्स्वर्गं लोकं यजमाना अस्मिँ ल्लोके प्रतितिष्ठन्त्यथ य एककामाः स्युः स्वर्गकामाः पराञ्चमेव तेषां रोहेत्ते जयेयुर्हैव स्वर्गं लोकं न त्वेवास्मिँ ल्लोके ज्योगिव वसेयुर्मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च

जागतानि च मिथुनं वै पशवः पशवश्छन्दांसि पशूनां अवरुद्ध्यै २१