विश्वास-प्रस्तुतिः
दूरोहणं रोहति स्वर्गो वै लोको दूरोहाणं स्वर्गमेव तल्लोकं रोहति य एवं वेद ।
Haug
(The Haṁsavati Verse or the Târkṣya Triplet to be Repeated in the Dûrohaṇa way. Explanation of both the Haṁsavati and Târkṣya.)
He repeats the Dûrohaṇam as if he were ascending (a height). For the heaven-world is difficult to ascend (dûrohaṇam). He who has such a knowledge ascends to the celestial world.
मूलम्
दूरोहणं रोहति स्वर्गो वै लोको दूरोहाणं स्वर्गमेव तल्लोकं रोहति य एवं वेद ।
विश्वास-प्रस्तुतिः
यदेव दूरोहणा३म्, असौ वै दूरोहो यो ऽसौ तापति कश्चिद्वा अत्र गच्छति स यद्दूरोहणं रोहत्येतमेव तद्रोहति ।
Haug
As regards the word dûrohaṇam, that one who there burns (the sun) has a difficult passage up (to his place) as well as any one who goes there (i. e., the sacrificer who aspires after heaven). By repeating the Dûrohaṇam, he thus ascends to him (the sun).
मूलम्
यदेव दूरोहणा३म्, असौ वै दूरोहो यो ऽसौ तापति कश्चिद्वा अत्र गच्छति स यद्दूरोहणं रोहत्येतमेव तद्रोहति ।
विश्वास-प्रस्तुतिः
हंसवत्या रोहति ।
Haug
He ascends with a verse addressed to the haṁsa (with a haṁsavatî).[18] (The several terms of the haṁ savati are now explained).
Haug - Notes
[18]This verse forms the Dûrohaṇa mantra. Its repetition is described by Âśval. Śr. S. 8, 2, in the following way:
आह्वय दूरोहणं रोहेद्वंसः शूचिषदिति पच्छो ऽर्धर्चशस्त्रिपद्याचतुर्थमनवानमुक्त्वा प्रणुत्यावस्येत्पुनस्त्रिपद्यार्धर्चशः पच्छ एव सप्तममेतद्दरोहणं; i. e., after having called śomsâvom, he should repeat the verse haṁsaḥ śuchíṣad (4, 40, 5) in the Dûrohaṇa way first by padas, then by half verses, then taking three padas together, and, finally, the whole verse without stopping, and conclude (this first repetition) with the syllable om. Then he ought to repeat it again, commencing with three padas taken together, then by half verses (and ultimately) by padas, which makes the seventh repetition (of the same verse). This is the Dûrohaṇam. See Ait. Br. 4, 21. The Maitrâvaruņa has it to repeat always on the sixth day of the Abhiplava Ṣalahas. On the Viṣuvan day it is repeated by the Hotar. The haṁsavati forms part of a hymn addressed to Dadhikrâvan, which is a name of the sun; haṁsa, i. e., swan, is another metaphorical expression for “sun.”
मूलम्
हंसवत्या रोहति ।
विश्वास-प्रस्तुतिः
हंसः शुचिषदित्येष वै हंसः शुचिषत् ।
Haug
This (Āditya, the sun) is “the swan sitting in light.”
मूलम्
हंसः शुचिषदित्येष वै हंसः शुचिषत् ।
विश्वास-प्रस्तुतिः
वसुरन्तरिक्षसदित्येष वै वसुरन्तरिक्षसत् ।
Haug
He is the “Vasu (shining being) sitting in the air.”
मूलम्
वसुरन्तरिक्षसदित्येष वै वसुरन्तरिक्षसत् ।
विश्वास-प्रस्तुतिः
होता वेदिषदित्येष वै होता वेदिषत् ।
Haug
He is the “Hotar sitting on the Vedi.”
मूलम्
होता वेदिषदित्येष वै होता वेदिषत् ।
विश्वास-प्रस्तुतिः
अतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसत् ।
Haug
He is the “guest sitting in the house.”
मूलम्
अतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसत् ।
विश्वास-प्रस्तुतिः
नृषदित्येष वै नृषत् ।
Haug
He is “sitting among men.”
मूलम्
नृषदित्येष वै नृषत् ।
विश्वास-प्रस्तुतिः
वरसदित्येष वै वरसत् ।
Haug
He “sits in the most excellent place” (varasad),
मूलम्
वरसदित्येष वै वरसत् ।
विश्वास-प्रस्तुतिः
वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपति ।
Haug
for that place, in which sitting, he burns, is the most excellent of seats.
मूलम्
वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपति ।
विश्वास-प्रस्तुतिः
ऋतसदित्येष वै सत्यसत् ।
Haug
He is “sitting in truth” (ṛitasad).
मूलम्
ऋतसदित्येष वै सत्यसत् ।
विश्वास-प्रस्तुतिः
व्योमसदित्येष वै व्योमसत् ।
Haug
He is “sitting in the sky” (vyomasad),
मूलम्
व्योमसदित्येष वै व्योमसत् ।
विश्वास-प्रस्तुतिः
व्योम वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपति ।
Haug
for the sky is among the places that one where sitting he burns.
मूलम्
व्योम वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपति ।
विश्वास-प्रस्तुतिः
अब्जा इत्येष वा अब्जा ।
Haug
He is “born from the waters” (abjâ),
मूलम्
अब्जा इत्येष वा अब्जा ।
विश्वास-प्रस्तुतिः
अद्भ्यो वा एष प्रातरुदेत्यपः सायं प्रविशति ।
Haug
for in the morning he comes out of the waters, and in the evening he enters the waters.
मूलम्
अद्भ्यो वा एष प्रातरुदेत्यपः सायं प्रविशति ।
विश्वास-प्रस्तुतिः
गोजा इत्येष वै गोजाः ।
Haug
He is “born from cows” (gojâ).
मूलम्
गोजा इत्येष वै गोजाः ।
विश्वास-प्रस्तुतिः
ऋतजा इत्येष वै सत्यजाः ।
Haug
He is “born from truth.”
मूलम्
ऋतजा इत्येष वै सत्यजाः ।
विश्वास-प्रस्तुतिः
अद्रिजा इत्येष वा अद्रिजाः ।
Haug
He is “born from the mountain” (he appears on a mountain, as it were, when rising).
मूलम्
अद्रिजा इत्येष वा अद्रिजाः ।
विश्वास-प्रस्तुतिः
ऋतमित्येष वै सत्यम् ।
Haug
He is “truth” (ṛitam).
मूलम्
ऋतमित्येष वै सत्यम् ।
विश्वास-प्रस्तुतिः
एष एतानि सर्वाणि ।
Haug
He (the sun) is all these (forms).
मूलम्
एष एतानि सर्वाणि ।
विश्वास-प्रस्तुतिः
एषा ह वा अस्य च्छन्दःसु प्रत्यक्षतमादिव रूपं तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत् ।
Haug
Among the metres (sacred verses) this (haṁsavatî verse) is, as it were, his most expressive and clearest form. Thence the Hotar should, wherever he makes the Dûrohaṇam, make it with the Haṁsavatî verse.
मूलम्
एषा ह वा अस्य च्छन्दःसु प्रत्यक्षतमादिव रूपं तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत् ।
विश्वास-प्रस्तुतिः
तार्क्ष्ये स्वर्गकामस्य रोहेत् ।
Haug
He who desires heaven, should, however, make it with the Târkṣya verse (10, 178, 1).
मूलम्
तार्क्ष्ये स्वर्गकामस्य रोहेत् ।
विश्वास-प्रस्तुतिः
तार्क्ष्यो ह वा एतं पूर्वो ऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्वा सोमामाहरत् ।
Haug
For Târkṣya showed the way to the Gâyatrî when she, in the form of an eagle, abstracted the Soma (from heaven).
मूलम्
तार्क्ष्यो ह वा एतं पूर्वो ऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्वा सोमामाहरत् ।
विश्वास-प्रस्तुतिः
तद्यथा क्षेत्रज्ञमध्वनः पुर एतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्ये ।
Haug
When he thus uses the Târkṣya for making the Dûrohaṇam, he does just the same as if he were to appoint one who knows the fields as his guide (when travelling anywhere).
मूलम्
तद्यथा क्षेत्रज्ञमध्वनः पुर एतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्ये ।
विश्वास-प्रस्तुतिः
अयं वै तार्क्ष्यो यो ऽयं पवत एष स्वर्गस्य लोकस्याभिवोह्ळा ।
Haug
The Târkṣya[19] is that one who blows (i. e., the wind), thus carrying one up to the celestial world.
Haug - Notes
[19]It is often identified with the Garuḍa, i. e., the celestial eagle. According to Naigh. 1, 14, it means “horse.” Whether it is a personification of the sun, as is assumed in the Saṁskṛit Dictionary of Boehtlingk and Roth, iii, page 310, is very doubtful to me.
मूलम्
अयं वै तार्क्ष्यो यो ऽयं पवत एष स्वर्गस्य लोकस्याभिवोह्ळा ।
विश्वास-प्रस्तुतिः
त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः ।
Haug
The Târkshya hymn is as follows : (1) “Let us call hither to (our) safety the Târkṣya, that horse instigated by the gods,"… He (the Târkṣya) is the horse (vâjî) instigated by the gods.
मूलम्
त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः ।
विश्वास-प्रस्तुतिः
सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुता ।
Haug
“(the horse) which is enduring, makes pass the carriages (without any impediment),” … He is enduring, makes pass the carriage (without any impediment);
मूलम्
सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुता ।
विश्वास-प्रस्तुतिः
एष हीमाँल्लोकान्सद्यस्तरति ।
Haug
for he crosses the way through these worlds in an instant.
मूलम्
एष हीमाँल्लोकान्सद्यस्तरति ।
विश्वास-प्रस्तुतिः
अरिष्टनेमिं पृतनाजमाशुमित्येष वा अरिष्टनेमिः पृतनाजिदाशुः ।
Haug
“which keeps unbroken the spokes of the carriage wheel, which is fierce in battle and swift.” He keeps the spokes of the carriage wheel unbroken, conquers in battle (pṛitanâja being explained by pṛitanâjit).
मूलम्
अरिष्टनेमिं पृतनाजमाशुमित्येष वा अरिष्टनेमिः पृतनाजिदाशुः ।
विश्वास-प्रस्तुतिः
स्वस्तय इति स्वस्तितामाशास्ते ।
Haug
By the words, “to (our) safety,” the Hotar asks for safety.
मूलम्
स्वस्तय इति स्वस्तितामाशास्ते ।
विश्वास-प्रस्तुतिः
तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतत् ।
Haug
By the words, “let us call hither the Târkṣya,” he thus calls him.
मूलम्
तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतत् ।
विश्वास-प्रस्तुतिः
इन्द्रस्येव रातिमाजोहुवानाः स्वस्तय इति स्वस्तितामेवा ऽऽशास्ते ।
Haug
(2) “Offering repeatedly gifts (to the Târkṣya) as if they were for Indra, let us for (our) safety”… By the words, “for safety,” he asks for safety.
मूलम्
इन्द्रस्येव रातिमाजोहुवानाः स्वस्तय इति स्वस्तितामेवा ऽऽशास्ते ।
विश्वास-प्रस्तुतिः
नावमिवा ऽऽरुहेमेति समेवैनमेतदधिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै ।
Haug
“embark in the ship (represented by the “Dûrohaṇam) as it were”…. By the words, “let us embark in the ship,” he thus mounts him (the Târkṣya), in order to reach the heavenly world, to enjoy it and to join (the celestial inhabitants).
मूलम्
नावमिवा ऽऽरुहेमेति समेवैनमेतदधिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्यै ।
विश्वास-प्रस्तुतिः
उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आ च परा च मेष्यन् ।
Haug
“(May) the earth (be) wide (to allow us free passage). May we not be hurt when going (our way) through you two (heaven and earth) who are great and deep (like an ocean).” By the words, “(may) the earth (be) wide, may we not be hurt,” &c., the Hotar prays for a (safe) passage and (a safe) return.[20]
Haug - Notes
[20]आच पराच मेष्यन् are explained by Sây. as आगमिष्यन् and पुनरपि परावृत्य गमिष्यन्.
मूलम्
उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आ च परा च मेष्यन् ।
विश्वास-प्रस्तुतिः
सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषा ऽपस्ततानेति प्रत्यक्षं सूर्यमभिवदति ।
Haug
(3) “He (the Târkṣya) passes in an instant by dint of his strength through the regions of all five tribes (i. e., the whole earth), just as the sun extends the waters (in an instant) by its light”…. By the word, sûrуа, he praises the sun openly.
मूलम्
सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषा ऽपस्ततानेति प्रत्यक्षं सूर्यमभिवदति ।
विश्वास-प्रस्तुतिः
सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेना ऽऽशास्त आत्मने च यजमानेभ्यश्च ।
Haug
“The speed of him (the “Târkṣya”) who grants a thousand, who grants a hundred, gifts, is as irresistible as that of a fresh arrow.” By the words, “the speed of him,” &c., he asks for a blessing for himself and the sacrificers.
मूलम्
सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेना ऽऽशास्त आत्मने च यजमानेभ्यश्च ।