दूरोहणं रोहति स्वर्गो वै लोको दूरोहाणं स्वर्गमेव तल्लोकं रोहति य एवं वेद यदेव दूरोहणाम् असौ वै दूरोहो योऽसौ तापति कश्चिद्वा अत्र गछति स यद्दूरोहणं रोहत्येतमेव तद्रो हति हंसवत्या रोहति हंसः शुचिषदित्येष वै हंसः शुचिषद्वसुरन्तरिक्षदित्येष वै वसुरन्तरिक्षसद्धोता वेदिषदित्येष वै होता वेदिषदतिथिर्दुरोणसदित्येष वा अतिथिर्दुरोणसन्नृषदित्येष वै नृषद्वरसदित्येष वै वरसद्वरं वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यृतसदित्येष वै सत्य-सद्व्योमसदित्येष वै व्योमसद्व्योम वा एतत्सद्मनां यस्मिन्नेष आसन्नस्तपत्यब्जा इत्येष वा अब्जा अद्भ्यो वा एषा प्रातरुदेत्यपः सायम्प्रविशति गोला इत्येष वै गोजा ऋताजा इत्येष वै सत्यजा अद्रि जा इत्येष वा अद्रि जा ऋतमित्येष वै सत्यमेष एतानि सर्वाण्येषा ह वा अस्य छन्दस्सु प्रत्यक्षतमादिव रूपं तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत्तार्क्ष्ये स्वर्गकामस्य रोहेत्तार्क्ष्यो ह वा एतम्पूर्वोऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्व सोमामाहरत्तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्येऽयं वै तार्क्ष्यो योऽयम्पवत एष स्वर्गस्य लोकस्याभिवोळ्हा त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुतैष हीमाँ ल्लोकान्सद्यस्तरत्यरिष्टनेमि-म्पृतनाजमाशुमित्येष व अरिष्टनेमिः पृतनाजिदाशुः स्वस्तय इति स्वस्तितामाशास्ते तार्क्ष्यमिहा हुवेमेति ह्वयत्येवैनमेतदिन्द्र स्येव रातिमाजो-हुवानाः स्वस्तय इति स्वस्तितामेवाशास्ते नावमिवा रुहेमेति समेवैनमेतद-धिरोहति स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषामेतीमे एवैतदनुमन्त्रयत आचपराचमेष्य-न्सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततानेति प्रत्यक्षं सूर्य-मभिवदति सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्यामित्याशिषमेवैतेनाशास्त आत्मने च यजमानेभ्यश्च २०