१९

स्वरसाम्न उपयन्तीमे वै लोकाः स्वरसामान इमान्वै लोकान्स्वरसा-मभिरस्पृण्वंस्तत्स्वरसाम्नां स्वरसामत्वं तद्यत्स्वरसाम्न उपयन्त्येष्वेवैनं तल्लो-केष्वाभजन्ति तेषां वै देवाः सप्तदशानाम्प्रव्लयादबिभयुः समा इव वै स्तोमा अविगूळ्हा इवेमे ह न प्रव्लियेरन्निति तान्सर्वैः स्तोमैरवस्तात्पर्यार्षन्सर्वैः पृष्ठैः परस्तात्तद्यदभिजित्सर्वस्तोमोऽवस्ताद्भवति विश्वजित्सर्वपृष्ठः परस्तात्तत्सप्त-दशानुभयतः पर्यृषन्ति धृत्या अप्रव्लयाय तस्य वै देवा आदित्यस्य स्वर्गा-ल्लोकादवपातादबिभयुस्तम्पञ्चभी रश्मिभिरुदवयन्रश्मयो वै दिवाकीर्त्यानि महादिवाकिर्त्यम्पृष्ठम्भवति विकर्णम्ब्रह्मसाम भासमग्निष्टोमसामोभे बृहद्र थंतरे पवमानयोर्भवतस्तदादित्यम्पञ्चभी रश्मिभिरुद्वयन्ति धृत्या अनवपातायोदित आदित्ये प्रातरनुवाकमनुब्रूयात्सर्वं ह्येवैतदहर्दिवाकीर्त्यम्भवति सौर्यम्पशुम-न्यङश्वेतं सवनियस्योपालम्भ्यमालभेरन्सूर्यदेवत्यं ह्येतदहरेकविंशतिं सामि-धेनीरनुब्रूयात्प्रत्यक्षाद्ध्येतदहरेकविंशमेकपञ्चाशतं द्विपञ्चाशतं वा शस्त्वा मध्ये निविदं दधाति तावतीरुत्तराः शङ्सति शतायुर्वै पुरुषः शतवीर्यः

शतेन्द्रि य आयुष्येवैनं तद्वीर्य इन्द्रि ये दधाति १९