एकविंशमेतदहरुपयन्ति विषुवन्तम्मध्ये संवत्सरस्यैतेन वै देवा एकविंशे-नादित्यं स्वार्गय लोकायोदयछन्स एष इत एकविंशस्तस्य दशावस्तादहानि दिवाकीर्त्यस्य भवन्ति दश परस्तान्मध्य एष एकविंश उभयतो विराजि प्रतिष्ठित उभयतो हि वा एष विराजि प्रतिष्ठितस्तस्मादेषोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोकादवपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तस्य पराचो-ऽतिपातादबिभयुस्तं त्रिभिः स्वर्गैर्लोकैः परस्तात्प्रत्यस्तभ्नुवन्स्तोमा वै त्रयः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयाः परस्तान्मध्य एष एकविंश उभयतः स्वरसामभिर्धृत उभयतो हि वा एष स्वरसामभिर्धृतस्तस्मादे-षोऽन्तरेमाँ ल्लोकान्यन्न व्यथते तस्य वै देवा आदित्यस्य स्वर्गाल्लोका-दवपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैरवस्तात्प्रत्युत्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तस्य पराचोऽतिपातादबिभयुस्तम्परमैः स्वर्गैर्लोकैः परस्ता-त्प्रत्यस्तभ्नुवन्स्तोमा वै परमाः स्वर्गा लोकास्तत्त्रयोऽवस्तात्सप्तदशा भवन्ति त्रयः परस्तात्ते द्वौद्वौ सम्पद्य त्रयश्चतुस्त्रिण्शा भवन्ति चतुस्त्रिंशो वै स्तोमा-नामुत्तमस्तेषु वा एष एतदध्याहितस्तपति तेषु हि वा एष एतदध्याहितस्तपति स वा एष उत्तरोऽस्मात्सर्वस्माद्भूताद्भविष्यतः सर्वमेवेदमतिरोचते यदिदं
किंचोत्तरो भवति यस्मादुत्तरो बुभूषति तस्मादुत्तरो भवति य एवं वेद १८