१७

गवामयनेन यन्ति गावो वा आदित्या आदित्यानामेव तदयनेन यन्ति गावो वै सत्रमासत शफाञ्छृङ्गाणि सिषासन्त्यस्तासां दशमे मासि शफाः शृङ्गाण्यजायन्त ता अब्रुवन्यस्मै कामायादीक्षामह्यापाम तमुत्तिष्ठामेति ता या उदतिष्ठंस्ता एताः शृङ्गिण्योऽथ याः समापयिष्यामः संवत्सरमित्यासत तासा-मश्रद्धया शृङ्गाणि प्रावर्तन्त ता एतास्तूपरा ऊर्जं त्वसुन्वंस्तस्मादु ताः सर्वा-नृतून्प्राप्त्वोत्तरमुत्तिष्ठन्त्यूर्जं ह्यसुन्वन्सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः सर्वस्य प्रेमाणं सर्वस्य चारुतां गछति य एवं वेदादित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयम्पूर्व एष्यामो वयमिति ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु यथा वा प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वेऽभिप्लवाः षळहा आक्ष्यन्त्यन्या-न्यहानि तदादित्यानामयनम्प्रायणीयोऽतिरात्रश्चतुर्विंश उक्थ्यः सर्वे पृष्ठ्याः षळहा आक्ष्यन्त्यन्यान्यहानि तदङ्गिरसामयनं सा यथा स्रुतिरञ्जसाय-न्येवमभिप्लवः षळहः स्वर्गस्य लोकस्याथ यथा महापथः पर्याण एवम्पृष्ठ्यः षळहः स्वर्गस्य लोकस्य तद्यदुभाभ्यां यन्त्युभाभ्यां वै यन्न रिष्यत्युभयोः

कामयोरुपाप्त्यै यश्चाभिप्लवे षळहे यश्च पृष्ठ्ये १७