१६

विश्वास-प्रस्तुतिः

प्रथमं षळहमुपयन्ति ।

Haug

(On the Meaning of the Celebration of Five Ṣaḷahas during the Course of a Month.)

They celebrate the first Ṣaḷaha.

मूलम्

प्रथमं षळहमुपयन्ति ।

विश्वास-प्रस्तुतिः

षळहानि भवन्ति ।

Haug

This makes six days.

मूलम्

षळहानि भवन्ति ।

विश्वास-प्रस्तुतिः

षड्वा ऋतवः ।

Haug

There are six seasons.

मूलम्

षड्वा ऋतवः ।

विश्वास-प्रस्तुतिः

ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशः संवत्सरे प्रतितिष्ठन्तो यन्ति ।

Haug

Thus they secure the year (for themselves) as divided into seasons, and gain a firm footing in the several seasons of the year.

मूलम्

ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशः संवत्सरे प्रतितिष्ठन्तो यन्ति ।

विश्वास-प्रस्तुतिः

द्वितीयं षळहमुपयन्ति ।

Haug

They celebrate the second Ṣaḷaha.

मूलम्

द्वितीयं षळहमुपयन्ति ।

विश्वास-प्रस्तुतिः

द्वादशाहानि भवन्ति ।

Haug

This makes (in addition to the previous six days) twelve days.

मूलम्

द्वादशाहानि भवन्ति ।

विश्वास-प्रस्तुतिः

द्वादश वै मासाः ।

Haug

There are twelve months.

मूलम्

द्वादश वै मासाः ।

विश्वास-प्रस्तुतिः

मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति ।

Haug

Thus they secure the year as divided into months, and gain a firm footing in the several months of the year.

मूलम्

मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति ।

विश्वास-प्रस्तुतिः

तृतीयं षळहमुपयन्ति ।

Haug

They celebrate the third Ṣaḷaha.

मूलम्

तृतीयं षळहमुपयन्ति ।

विश्वास-प्रस्तुतिः

अष्टादशाहानि भवन्ति ।

Haug

This makes (in addition to the previous twelve days) eighteen days.

मूलम्

अष्टादशाहानि भवन्ति ।

विश्वास-प्रस्तुतिः

तानि द्वेधा नवान्यानि नवान्यानि ।

Haug

This makes twice nine.

मूलम्

तानि द्वेधा नवान्यानि नवान्यानि ।

विश्वास-प्रस्तुतिः

नव वै प्राणा नव स्वर्गा लोकाः ।

Haug

There are nine vital airs, and nine celestial worlds.

मूलम्

नव वै प्राणा नव स्वर्गा लोकाः ।

विश्वास-प्रस्तुतिः

प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति ।

Haug

Thus they obtain the nine vital airs, and reach the nine celestial worlds, and gaining a firm footing in the vital airs, and the celestial worlds, they walk there.

मूलम्

प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति ।

विश्वास-प्रस्तुतिः

चतुर्थं षळहमुपयन्ति ।

Haug

They celebrate the fourth Ṣaḷaha.

मूलम्

चतुर्थं षळहमुपयन्ति ।

विश्वास-प्रस्तुतिः

चतुर्विंशतिरहानि भवन्ति ।

Haug

This makes twenty-four days.

मूलम्

चतुर्विंशतिरहानि भवन्ति ।

विश्वास-प्रस्तुतिः

चतुर्विंशतिर्वा अर्धमासाः ।

Haug

There are twenty-four half-months.

मूलम्

चतुर्विंशतिर्वा अर्धमासाः ।

विश्वास-प्रस्तुतिः

अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्धमासशः संवत्सरे प्रतितिष्ठन्तो यन्ति ।

Haug

Thus they secure the year as divided into half-months, and, gaining a firm footing in its several half-months, they walk in them.

मूलम्

अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्धमासशः संवत्सरे प्रतितिष्ठन्तो यन्ति ।

विश्वास-प्रस्तुतिः

पञ्चमं षळहमुपयन्ति ।

Haug

They celebrate the fifth Ṣaḷaha.

मूलम्

पञ्चमं षळहमुपयन्ति ।

विश्वास-प्रस्तुतिः

त्रिंशदहानि भवन्ति ।

Haug

This makes thirty days.

मूलम्

त्रिंशदहानि भवन्ति ।

विश्वास-प्रस्तुतिः

त्रिंशदक्षरा वै विराट् ।

Haug

The Virāṭ metre has thirty syllables.

मूलम्

त्रिंशदक्षरा वै विराट् ।

विश्वास-प्रस्तुतिः

विराळन्नाद्यम् ।

Haug

The Virāṭ is food.

मूलम्

विराळन्नाद्यम् ।

विश्वास-प्रस्तुतिः

विराजमेव तन्मासि मास्यभिसम्पादयन्तो यन्ति ।

Haug

Thus they procure virāṭ (food) in every month.

मूलम्

विराजमेव तन्मासि मास्यभिसम्पादयन्तो यन्ति ।

विश्वास-प्रस्तुतिः

अन्नाद्याकामाः खलु वै सात्रमासत ।

Haug

Those who wished for food, were (once) holding a sacrificial session.

मूलम्

अन्नाद्याकामाः खलु वै सात्रमासत ।

विश्वास-प्रस्तुतिः

तद्यद्विराजं मासि मास्यभिसम्पादयन्तो यन्त्यन्नाद्यमेव तन्मासि मास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम् ।

Haug

By obtaining in every month the Virāṭ (the number thirty), they become possessed of food for both worlds, this one and that one.

मूलम्

तद्यद्विराजं मासि मास्यभिसम्पादयन्तो यन्त्यन्नाद्यमेव तन्मासि मास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम् ।