१६

प्रथमं षळहमुपयन्ति षळ् अहानि भवन्ति षड्वा ऋतव ऋतुश एव तत्संवत्सरमाप्नुवन्त्यृतुशान्संवत्सरे प्रतितिष्ठन्तो यन्ति द्वितीयं षळहमुपयन्ति द्वादशाहानि भवन्ति द्वादश वै मासा मासश एव तत्संवत्सरमाप्नुवन्ति मासशः संवत्सरे प्रतितिष्ठन्तो यन्ति तृतीयं षळहमुपयन्त्यष्टादशाहानि भवन्ति तानि द्वेधा नवान्यानि नवान्यानि नव वै प्राणा नव स्वर्गा लोकाः प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नुवन्ति प्राणेषु चैव तत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति चतुर्थं षळहमुपयन्ति चतुर्विंशतिरहानि भवन्ति चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संवत्सरमाप्नुवन्त्यर्धमाशशः संवत्सरे प्रतितिष्ठन्तो यन्ति पञ्चमं षळहमुपयन्ति त्रिंशदहानि भवन्ति त्रिंशदक्षरा वै विराड्विराळ् अन्नाद्यं विराजमेव तन्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्याकामाः खलु वै सात्रमा-सत तद्यद्विराजम्मासिमास्यभिसम्पादयन्तो यन्त्यन्नाद्यमेव तन्मासिमास्यवरुन्धाना यन्त्यस्मै च लोकायामुष्मै चोभाभ्याम् १६