ज्योतिर्गौरायुरिति स्तोमेभिर्यन्त्ययं वै लोको ज्योतिरन्तरिक्षं गौरसौ लोक आयुः स एवैष उत्तरस्त्र्यहो ज्योतिर्गौरायुरिति त्रीण्यहानि गौरायुर्ज्योतिरिति त्रीण्ययं वै लोको ज्योतिरसौ लोको ज्योतिस्ते एते ज्योतिषी उभयतः संलोकेते तेनैतेनोभयतोज्योतिषा षळहेन यन्ति तद्यदेतेनोभयतोज्योतिषा षळहेन यन्त्यनयोरेव तल्लोकयोरुभयतः प्रतितिष्ठन्तो यन्त्यस्मिंश्च लोकेऽमुष्मिंश्चोभयोः परियद्वा एतद्देवचक्रं यदभिप्लवः षळहस्तस्य यावभितोऽग्निष्टोमौ तौ प्रधी ये चत्वारो मध्य उक्थ्यास्तन्नभ्यं गछति वै वर्तमानेन यत्र कामयते तत्स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै तद्वेद यत्प्रथमः षळहः स वै स्वस्ति संवत्सरस्य पारमश्नुते यस्तद्वेद यद्द्वितीयो यस्तद्वेद यत्तृतीयो यस्तद्वेद
यच्चतुर्थो यस्तद्वेद यत्पञ्चमः १५