यद्वै चतुर्विंशं तन्महाव्रतम्बृहद्दिवेनात्र होता रेतः सिञ्चति तददो महाव्रतीयेनाह्ना प्रजनयति संवत्सरेसंवत्सरे वै रेतः सिक्तं जायते तस्मात्समानम्बृहद्दिवो निष्केवल्यम्भवत्येष ह वा एनम्परस्तात्कर्मभिराप्त्वावस्तादुपैति य एवं विद्वानेतदहरुपैति स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्स-रस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवारमुदयनीयः पारं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्यावरोधनं चोद्रो धनं च वेद स वै स्वस्ति सम्वत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयोऽवरोधनमुदयनीय उद्रो धनं स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद यो वै संवत्सरस्य प्राणोदानौ वेद स वै स्वस्ति संवत्सरस्य पारमश्नुतेऽतिरात्रो वा अस्य प्रायणीयः प्राण उदान
उदयनीयः स्वस्ति संवत्सरस्य पारमश्नुते य एवं वेद य एवं वेद १४
२