१३

बृहद्र थंतरे सामनी भवत एते वै यज्ञस्य नावौ सम्पारिण्यौ यद्बृहद्र थंतरे ताभ्यामेव तत्संवत्सरं तरन्ति पादौ वै बृहद्र थंतरे शिर एतदहः पादाभ्यामेव तच्छ्रियं शिरोऽभ्यायन्ति पक्षौ वै बृहद्र थंतरे शिर एतदहः पक्षाभ्यामेव तच्छ्रियं शिरोऽभ्यायुवते ते उभे न समवसृज्ये य उभे समवसृजेयुर्यथैव छिन्ना नौर्बन्धनात्तीरं-तीरमृछन्ति प्लवेतैवमेव ते सत्रिणस्तीरंतीरमृछन्तः प्लवेरन्य उभे समवसृजेयुस्तद्यदि रथंतरमवसृजेयुर्बृहतैवोभे अनवसृष्टे अथ यदि बृहदवसृजेयू रथंतरेणैवोभे अनवसृष्टे यद्वै रथंतरं तद्वैरूपं यद्बृहत्तद्वैराजम्यद्र थंतरं तच्छाक्वरं यद्बृहत्तद्रै वतमेवमेते उभे अनवसृष्टे भवतो ये वा एवं विद्वांस एतदहरुपयन्त्याप्त्वा वै तेऽहश्शः संवत्सरमाप्त्वार्धमासश आप्त्वा मासश आप्त्वा स्तोमांश्च छन्दांसि चाप्त्वा सर्वा देवतास्तप एव तप्यमानाः सोमपीथम्भक्षयन्तः संवत्सरमभिषुण्वन्त आसते ये वा अत ऊर्ध्वं संव-त्सरमुपयन्ति गुरुं वै ते भारमभिनिदधते सं वै गुरुर्भारः शृणात्यथ य एनम्परस्तात्कर्मभिराप्त्वावस्तादुपैति स वै स्वस्ति संवत्सरस्य पारमश्नुते १३