१२

चतुर्विंशमेतदहरुपयन्त्यारम्भणीयमेतेन वै संवत्सरमारभन्त एतेन स्तोमांश्च छन्दांसि चैतेन सर्वा देवता अनारब्धं वै तच्छन्दोऽनारब्धा सा देवता यदेतस्मिन्नहनि नारभन्ते तदारम्भणीयस्यारम्भणीयत्वं चतुर्विंशः स्तोमो भवति तच्चतुर्विंशस्य चतुर्विंशत्वं चतुर्विंशतिर्वा अर्धमासा अर्धमासश एव तत्संव-त्सरमारभन्त उक्थ्यो भवति पशवो वा उक्थानि पशूनामवरुद्ध्यै तस्य पञ्चदश स्तोत्राणि भवन्ति पञ्चदश शस्त्रानि स मासो मासश एव तत्संवत्सरमारभन्ते तस्य षष्टिश्च त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहश्श एव तत्संवत्सरमारभन्तेऽग्निष्टोम एतदहः स्यादित्याहुरग्निष्टोमो वै संवत्सरो न वा एतदन्योऽग्निष्टोमादहर्दाधारा न विव्याचेति स यद्यग्निष्टोमः स्यादष्टाच-त्वारिंशास्त्रयः पवमानाः स्युश्चतुर्विंशानीतराणि स्तोत्राणि तदु षष्टिश्चैव त्रीणि च शतानि स्तोत्रियास्तावन्ति संवत्सरस्याहान्यहश्श एव तत्संवत्सरमारभन्त उक्थ्य एव स्यात्पशुसमृद्धो यज्ञः पशुसमृद्धं सत्रं सर्वाणि चतुर्विंशानि

स्तोत्राणि प्रत्यक्षाद्ध्येतदहश्चतुर्विंशं तस्मादुक्थ्य एव स्यात् १२