११

ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठा-पयत्येवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामो बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान्वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिद-धाति बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्च-सकामोऽतीव वान्यान्ब्रह्मवर्चसमर्हति द्युमदिति द्युमदिव वै ब्रह्मवर्चसं विभातीति वीव वै ब्रह्मवर्चसम्भाति यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसं तदस्मासु द्र विणं धेहि चित्रमिति चित्रमिव वै ब्रह्म-वर्चसम्ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्याद्ब्राह्मणस्पत्या तेन सूर्यं नातिसंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि छन्दांस्यभ्याप्ता तेन बृहतीं नातिशंसति गायत्र्या च त्रिष्टुभा च वषट्कुर्याद्ब्रह्म वै गायत्री वीर्यन्त्रिष्टुब्ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोत्यश्विना वायुना युवं सुदक्षो भा पिबतमश्विनेति गायत्र्या च विराजा च वषट्कुर्याद्ब्रह्म वै गायत्र्यन्नं विराद्ब्रह्मणैव तदन्नाद्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गायत्र्या च विराजा च वषट्करोति तस्मादेवं विद्वान्गायत्र्या चैव विराजा च वषट्कुर्यात्प्र

वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम् ११