विश्वास-प्रस्तुतिः
ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठापयति ।
Haug
(*The Concluding Verses of the Aśvin Śastra. The Two Yājyās of it. In What Metre They Ought To Be.)
The Hotar concludes with a verse addressed to Brahmaṇaspati. For Brahma is Bṛihaspati. By repeating such a verse he puts the sacrificer in the Brahma.
मूलम्
ब्राह्मणस्पत्यया परिदधाति ब्रह्म वै बृहस्पतिर्ब्रह्मण्येवैनं तदन्ततः प्रतिष्ठापयति ।
विश्वास-प्रस्तुतिः
एवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामः ।
Haug
He who wishes for children and cattle should conclude with, evā pitre viśvâdevāya (4, 50, 6).
मूलम्
एवा पित्रे विश्वदेवाय वृष्ण इत्येतया परिदध्यात्प्रजाकामः पशुकामः ।
विश्वास-प्रस्तुतिः
बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान् वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिदधाति ।
Haug
For, on account of its containing the words, “O Bṛihaspati, might we be blessed with children and strong men, might we be owners of riches,” that man becomes blessed with children, cattle and riches, and strong men, at whose sacrifice there is a Hotar, knowing that he must conclude with this verse (in order to obtain this object wished for).
मूलम्
बृहस्पते सुप्रजा वीरवन्त इति प्रजया वै सुप्रजा वीरवान् वयं स्याम पतयो रयीणामिति प्रजावान्पशुमान्रयिमान्वीरवान्भवति यत्रैवं विद्वानेतया परिदधाति ।
विश्वास-प्रस्तुतिः
बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्चसकामः ।
Haug
He who wishes for beauty and acquirement of sacred knowledge ought to conclude with, bṛihaspate atiyad (2, 23, 15).
मूलम्
बृहस्पते अति यदर्यो अर्हादित्येतया परिदध्यात्तेजस्कामो ब्रह्मवर्चसकामः ।
विश्वास-प्रस्तुतिः
अतीव वा ऽन्यान्ब्रह्मवर्चसमर्हति ।
Haug
Here the word ati, i. e., beyond, means that he acquires more of sacred knowledge than other men do.
मूलम्
अतीव वा ऽन्यान्ब्रह्मवर्चसमर्हति ।
विश्वास-प्रस्तुतिः
द्युमदिति द्युमदिव वै ब्रह्मवर्चसम् ।
Haug
The term, dyumat (in the second pada), means “acquirement of sacred knowledge,”
मूलम्
द्युमदिति द्युमदिव वै ब्रह्मवर्चसम् ।
विश्वास-प्रस्तुतिः
विभातीति वीव वै ब्रह्मवर्चसं भाति ।
Haug
and vibhātā means, that the sacred knowledge shines everywhere, as it were.
मूलम्
विभातीति वीव वै ब्रह्मवर्चसं भाति ।
विश्वास-प्रस्तुतिः
यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसम् ।
Haug
The term dīdayat (in the third pada) means, that the sacred knowledge has been shining forth (in the Brahmans).
मूलम्
यद्दीदयच्छवस ऋतप्रजातेति दीदायेव वै ब्रह्मवर्चसम् ।
विश्वास-प्रस्तुतिः
तदस्मासु द्रविणं धेहि चित्रमिति चित्रमिव वै ब्रह्मवर्चसम् ।
Haug
The term, chitra (in the fourth pada), means that the sacred knowledge is, as it were, apparent (chitram).
मूलम्
तदस्मासु द्रविणं धेहि चित्रमिति चित्रमिव वै ब्रह्मवर्चसम् ।
विश्वास-प्रस्तुतिः
ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति ।
Haug
He, at whose sacrifice there is a Hotar knowing that he must conclude with this verse, becomes endowed with sacred knowledge and famous for sanctity.
मूलम्
ब्रह्मवर्चसी ब्रह्मयशसी भवति यत्रैवं विद्वानेतया परिदधाति ।
विश्वास-प्रस्तुतिः
तस्मादेवं विद्वानेतया परिदध्यात् ब्राह्मणस्पत्या ।
Haug
Thence a Hotar who has such a knowledge ought to conclude with this Brahmaṇaspati verse.
मूलम्
तस्मादेवं विद्वानेतया परिदध्यात् ब्राह्मणस्पत्या ।
विश्वास-प्रस्तुतिः
तेन सूर्यं नाति शंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि च्छन्दांस्यभ्याप्ता तेन बृहतीं नाति शंसति ।
Haug
By repeating it, he does not pass over the sun. The Triṣṭubh,[7] when repeated thrice, comprises all metres. In this way, he does not pass over the Bṛihatī (by repeating this Triṣṭubh).
Haug - Notes
[7]The verse bṛihaspate ati is in the Triṣṭubh metre. On account of its being the last verse of the Śhastra, it is to be repeated thrice.
मूलम्
तेन सूर्यं नाति शंसति यदु त्रिष्टुभं त्रिः शंसति सा सर्वाणि च्छन्दांस्यभ्याप्ता तेन बृहतीं नाति शंसति ।
विश्वास-प्रस्तुतिः
गायत्र्या च त्रिष्टुभा च वषट्कुर्यात् ब्रह्म वै गायत्री वीर्यं त्रिष्टुप् ।
Haug
He ought to pronounce the formula, Vauṣaṭ, along with a verse in the Gāyatrī, and one in the Triṣṭubh metre. Gāyatrī is the Brahma, and Triṣṭubh is strength.
मूलम्
गायत्र्या च त्रिष्टुभा च वषट्कुर्यात् ब्रह्म वै गायत्री वीर्यं त्रिष्टुप् ।
विश्वास-प्रस्तुतिः
ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोति ।
Haug
By doing so, he joins strength to the Brahma. He, at whose sacrifice there is a Hotar knowing that be (in order to obtain the objects mentioned) must pronounce the formula, Vauṣaṭ,[8] with a verse in the Gāyatrī, and one in the Triṣṭubh metre, becomes endowed with sacred knowledge and strength, and famous for sanctity.
Haug - Notes
[8]That is to say, he should then make the Yâjyâs; for only at that occasion the formula vauṣaṭ is pronounced.
मूलम्
ब्रह्मणैव तद्वीर्यं संदधाति ब्रह्मवर्चसी ब्रह्मयशसी वीर्यवान्भवति यत्रैवं विद्वान्गायत्र्या च त्रिष्टुभा च वषट्करोति ।
विश्वास-प्रस्तुतिः
अश्विना वायुना युवं सुदक्षोभा पिबतमश्विनेति ।
Haug
(The Triṣṭubh verse is) aśvinā vāyunā yuvam (3, 58, 7); (the Gāyatrī is) ubhā pibatam (1, 46, 15). (There is another way of pronouncing the formula Vauṣaṭ.)
मूलम्
अश्विना वायुना युवं सुदक्षोभा पिबतमश्विनेति ।
विश्वास-प्रस्तुतिः
गायत्र्या च विराजा च वषट्कुर्यात् ।
Haug
He ought to pronounce the formula Vauṣaṭ along with a verse in the Gāyatrī, and one in the Virāṭ metre.
मूलम्
गायत्र्या च विराजा च वषट्कुर्यात् ।
विश्वास-प्रस्तुतिः
ब्रह्म वै गायत्र्यन्नं विराट् ।
Haug
For Gāyatrī is Brahma, and Virāṭ is food.
मूलम्
ब्रह्म वै गायत्र्यन्नं विराट् ।
विश्वास-प्रस्तुतिः
ब्रह्मणैव तदन्नाद्यं संदधाति ।
Haug
By doing so, he joins food to the Brahma.
मूलम्
ब्रह्मणैव तदन्नाद्यं संदधाति ।
विश्वास-प्रस्तुतिः
ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गायत्र्या च विराजा च वषट्करोति ।
Haug
He, at whose sacrifice there is a Hotar knowing that he must pronounce the formula Vauṣaṭ along with a verse in the Gāyatrī, and one in the Virāṭ metre, becomes endowed with sacred knowledge, and famous for sanctity and eats Brahma food ( i.e., pure food ).
मूलम्
ब्रह्मवर्चसी ब्रह्मयशसी भवति ब्रह्माद्यमन्नमत्ति यत्रैवं विद्वान्गायत्र्या च विराजा च वषट्करोति ।
विश्वास-प्रस्तुतिः
तस्मादेवं विद्वान्गायत्र्या चैव विराजा च वषट्कुर्यात् ।
Haug
Therefore, one who has such a knowledge ought to pronounce the formula Vauṣaṭ along with a verse in the Gāyatrī, and one in the Triṣṭubh metre.
मूलम्
तस्मादेवं विद्वान्गायत्र्या चैव विराजा च वषट्कुर्यात् ।
विश्वास-प्रस्तुतिः
प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम् ।
Haug
They are, pra vām andhāṁsi (7, 68, 2, Virāṭ) and ubhā pibatam (1, 46, 15, Gāyatrī).
मूलम्
प्र वामन्धांसि मद्यान्यस्थुरुभा पिबतमश्विनेत्येताभ्याम् ।