०८

तासां वै देवतानामाजिं धावन्तीनामभिसृष्टानामग्निर्मुखम्प्रथमः प्रत्यपद्यत तमश्विनावन्वागछतां तमब्रूतामपोदिह्यावां वा इदं जेष्याव इति स तथेत्य-ब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादाग्नेयमाश्विने शस्यते ता उषसमन्वागछतां तामब्रूतामपोदिह्यावां वा इदं जेष्याव इति सा तथेत्यब्रवीत्तस्यै वै ममेहाप्यस्त्विति तथेति तस्या अप्यत्राकुरुतां तस्मा-दुषस्यमाश्विने शस्यते ताविन्द्र मन्वागछतां तमब्रूतामावां वा इदम्मघवञ्जेष्याव इति न ह तं दधृषतुरपोदिहीति वक्तुं स तथेत्यब्रवीत्तस्य वै ममेहाप्यस्त्विति तथेति तस्मा अप्यत्राकुरुतां तस्मादैन्द्र माश्विने शस्यते तदश्विना उदजयता-मश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मादेतदाश्विन-मित्याचक्षतेऽश्नुते यद्यत्कामयते य एवं वेद तदाहुर्यच्छस्यत आग्नेयं शस्यत उषस्यम्शस्यत ऐन्द्र मथ कस्मादेतदाश्विनमित्याचक्षत इत्यश्विनौ हि तदुदजयतामश्विनावाश्नुवातां यदश्विना उदजयतामश्विनावाश्नुवातां तस्मादेतदाश्विनमित्याचक्षतेऽश्नुते यद्यत्कामयते य एवं वेद ८