प्रजापतिर्वै सोमाया राज्ञे दुहितरम्प्रायछत्सूर्यां सावित्रीं तस्यै सर्वे देवा वरा आगछंस्तस्या एतत्सहस्रं वहतुमन्वाकरोद्यदेतदाश्विनमित्याचक्षतेऽनाश्विनं हैव तद्यदर्वाक्सहस्रं तस्मात्तत्सहस्रं वैव शंसेद्भूयो वा प्राश्य घृतं शंसेद्यथा ह वा इदमनो वा रथो वाक्तो वर्तत एवं हैवाक्तो वर्तते शकुनिरिवोत्पतिष्यन्नाह्वयीत तस्मिन्देवा न समजानत ममेदमस्तु ममेदमस्त्विति ते संजानाना अब्रुव-न्नाजिमस्यायामहै स यो न उज्जेष्यति तस्येदम्भविष्यतीति तेऽग्नेरेवाधि गृह-पतेरादित्यं काष्ठामकुर्वत तस्मादाग्नेयी प्रतिपद्भवत्याश्विनस्याग्निर्होता गृहपतिः स राजेति तद्धैक आहुरग्निम्मन्ये पितरमग्निमापिमित्येतया प्रतिपद्येत दिवि शुक्रं यजतं सूर्यस्येति प्रथमयैव ऋचा काष्ठामाप्नोतीति तत्तन्नादृत्यं य एनं तत्र ब्रूयादग्निमग्निमिति वै प्रत्यपाद्यग्निमापत्स्यतीति शश्वत्तथा स्यात्तस्मादग्निर्होता गृहपतिः स राजेत्येतयैव प्रतिपद्येत गृहपतिवती प्रजातिमती शान्ता सर्वायुः
सर्वायुत्वाय सर्वमायुरेति य एवं वेद ७