अहर्वै देवा अश्रयन्त रात्रीमसुरास्ते समावद्वीर्या एवासन्न व्यावर्तन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्रात्रीमन्ववेष्याव इति स देवेषु न प्रत्यविन्ददबिभयू रात्रेस्तमसो मृत्योस्तस्माद्धाप्येतर्हि नक्तं यावन्मत्रमि-वैवापक्रम्य बिभेति तम इव हि रात्रिर्मृत्युरिव तं वै छन्दांस्येवान्ववायंस्तं यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्र श्चैव छन्दांसि च रात्रीं वहन्ति न निवि-च्छस्यते न पुरोरुङ्न धाय्या नान्या देवतेन्द्र श्च ह्येव छन्दांसि च रात्रीं वहन्ति तान्वै पर्यायैरेव पर्यायमनुदन्त यत्पर्यायैः पर्यायमनुदन्त तत्पर्यायाणाम्पर्यायत्वं तान्वै प्रथमेनैव पर्यायेणा पूर्वरात्रादनुदन्त मध्यमेन मध्यरात्रादुत्तमेनापर-रात्रादपि शर्वर्या अनुस्मसीत्यब्रुवन्नपिशर्वराणि खलु वा एतानि छन्दांसीति ह स्माहैतानि हीन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्तदपिशर्वराणामपिशर्वरत्वम् ५