०४

महानाम्नीनामुपसर्गानुपसृजत्ययं वै लोकः प्रथमा महानाम्न्यन्तरिक्षलोको द्वितीयासौ लोकस्तृतीया सर्वेभ्यो वा एष लोकेभ्यः संनिर्मितो यत्षोलशी तद्यन्महानाम्नीनामुपसर्गानुपासृजति सर्वेभ्य एवैनं तल्लोकेभ्यः संनिर्मिमीते सर्वेभ्यो लोकेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद प्रप्र वस्त्रि-ष्टुभमिषमर्चत प्रार्चत यो व्यतीँ रफाणयदिति प्रज्ञाता अनुष्टुभः शंसति तद्यथेह चेह चापथेन चरित्वा पन्थानम्पर्यवेयात्तादृतद्यत्प्रज्ञाता अनुष्टुभः शंसति स यो व्याप्तो गतश्रीरिव मन्येताविहृतं षोळशिनं शंसयेन्नेच्छन्दसां कृछ्रादवपद्या इत्यथ यः पाप्मानमपजिघांसुः स्याद्विहृतं षोळसिनं शंसयेद्व्यतिषक्त इव वै पुरुषः पाप्मना व्यतिषक्तमेवास्मै तत्पाप्मानं शमलं हन्त्यप पाप्मानं हते य एवं वेदोद्यद्ब्रध्नस्य विष्टपमित्युत्तमया परिदधाति स्वर्गो वै लोको ब्रध्नस्य विष्टपम्स्वर्गमेव तल्लोकं यजमानं गमयत्यपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति पीतवद्वै प्रातःसवनम्प्रातःसवनादेवैनं तत्संनिर्मिमीतेऽथो इदं सवनं केवलं त इति माध्यंदिनं वै सवनं केवलम्माध्यंदिनादेवैनं तत्सवनात्संनिर्मिमीते ममद्धि सोमम्मधुमन्तमिन्द्रे ति मद्वद्वै तृतीयसवनं तृतीयसवनादेवैनं तत्संनिर्मिमीते सत्रा वृषञ्जठर आ वृषस्वेति वृषण्वद्वै षोळशिनो रूपं सर्वेभ्यो वा एष सवनेभ्यः संनिर्मितो यत्षोळशी तद्यदपाः पूर्वेषां हरिवः सुतानामिति यजति सर्वेभ्य एवैनं तत्सवनेभ्यः संनिर्मिमीते सर्वेभ्यः सवनेभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु सर्वेभ्यो वा एष छन्दोभ्यः संनिर्मितो यत्षोळशी तद्यन्महानाम्नीनाम्पञ्चाक्षरानुपसर्गानुपसृजत्ये-कादशाक्षरेषु पादेषु सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः

संनिर्मितेन षोळशिना राध्नोति य एवं वेद ४