०३

अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति गायत्रो वै पुरुषः पाङ्क्ताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वाज्ररूपान्नैति यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजत्यौष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति यदुष्णिक्च बृहती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैत्या धूर्षु अस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप्पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वे-षाम्पशुनां वीर्यवत्तमो यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपन्नैत्येष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः पुरुषमेव तत्प-शुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति तस्मात्पुरुषः पशुषु प्रतिष्ठितोऽत्ति चै-नानधि च तिष्ठति वशे चास्य यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति त्रिकद्रुकेषु महिषो यवा-शिरम्प्रो ष्वस्मै पुरोरथमित्यतिछन्दसः शंसति छन्दसां वै यो रसोऽत्य-क्षरत्सोऽतिछन्दसमभ्यत्यक्षरत्तदतिछन्दसोऽतिछन्दस्त्वं सर्वेभ्यो वा एष छ-न्दोभ्यः संनिर्मितो यत्षोळशी तद्यदतिछन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य

एवं वेद ३