०३

विश्वास-प्रस्तुतिः

अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति ।

Haug

(The Way in which the Padas of Two Different Metres are Mixed in the Ṣoḷaśī Sastra is shown.)

Then (when they use the Gaurivītī Sāman) the Hotar changes the natural position of the several padas of two different metres, and mixes them (vyatiṣajati). He mixes thus Gāyatrīs and Paṅktīs, ā tvā vahantu (1, 16, 1-3), and upa ṣu śṛiṇuhi (1, 82, 1-3-4).[7]

Haug - Notes

[7]Sây. shows the way in which the metres are mixed in the two verses:

(Gâyatrî) imâ dhânâ ghṛitasnuvo harî iḥopa vakṣataḥ indram sukhatame rathe (1, 16, 2). (Paṅktî) susaṁdṛiśam tvâ vayam maghavan vandîṣimahi.

pra nûnaṁ pûrṇavandhuraḥ stuto yâhi viśân anu yojânvindru to harî.

The Gâyatrî has three, the Paṅktî five feet (padas), each consisting of eight syllables. The two padas which the Paṅktî has in excess over the Gâyatrî, follow at the end without any corresponding Gâyatrî pada. After the second pada of the Paṅktî, there is the praṅava made (i.e., the syllable om is pronounced), and, likewise, after the fifth. The two verses, just mentioned, are now mixed as follows: imâ dhânâ ghṛitasnuvaḥ susaṁdṛiśam tvâ vayam harî ihopa vakṣato maghavan vandiṣimahom indram sukhatame rathe pra nûnaṁ pûrnavandhuraḥ stuto yahi viśân anu yojânvindru to karom.

मूलम्

अथातश्छन्दांस्येव व्यतिषजत्या त्वा वहन्तु हरय उपो षु शृणुही गिर इति गायत्रीश्च पङ्क्तीश्च व्यतिषजति ।

विश्वास-प्रस्तुतिः

गायत्रो वै पुरुषः पाङ्क्ताः पशवः ।

Haug

Man has the nature of the Gāyatrī, and cattle that of the Paṅktī.

मूलम्

गायत्रो वै पुरुषः पाङ्क्ताः पशवः ।

विश्वास-प्रस्तुतिः

पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति ।

Haug

(By thus mixing together Gāyatrī and Paṅktī verses) the Hotar mixes man among cattle, and gives him a firm footing among them (in order to become possessed of them).

मूलम्

पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ ।

Haug

As regards the Gāyatrī and Paṅktī, they both form two Anuṣṭubhs (for they contain as many padas, viz., eight, as both Gāyatrī and Paṅktī taken together).

मूलम्

यदु गायत्री च पङ्क्तिश्च ते द्वे अनुष्टुभौ ।

विश्वास-प्रस्तुतिः

तेनो वाचो रूपादनुष्टुभो रूपाद्वाज्ररूपान्नैति ।

Haug

By this means, the sacrificer becomes neither separated from the nature of Speech which exists in form of the Anuṣṭubh, nor from the nature of a weapon (Speech being regarded as such a one).

मूलम्

तेनो वाचो रूपादनुष्टुभो रूपाद्वाज्ररूपान्नैति ।

विश्वास-प्रस्तुतिः

यदिन्द्र पृतनाज्ये ऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजति ।

Haug

He mixes verses in the Uṣṇih and Bṛihatī metres, yad indra pṛitanājye (8, 12, 25-27) and ayam te astu haryata (3, 44, 1-3).

मूलम्

यदिन्द्र पृतनाज्ये ऽयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजति ।

विश्वास-प्रस्तुतिः

औष्णिहो वै पुरुषो बार्हताः पशवः ।

Haug

Man has the nature of Uṣṇih, and cattle that of Bṛihatī.

मूलम्

औष्णिहो वै पुरुषो बार्हताः पशवः ।

विश्वास-प्रस्तुतिः

पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति ।

Haug

(By thus mixing together Uṣṇih and Bṛihatī verses) he mixes man among cattle, and gives him a firm footing among them.

मूलम्

पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

यदुष्णिक्च बृहती च ते द्वे अनुष्टुभौ ।

Haug

As regards the Uṣṇih and Bṛihatī, they both form two Anuṣṭubhs.

मूलम्

यदुष्णिक्च बृहती च ते द्वे अनुष्टुभौ ।

विश्वास-प्रस्तुतिः

तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति ।

Haug

By this means the sacrificer becomes neither separated, &c.

मूलम्

तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति ।

विश्वास-प्रस्तुतिः

आधूर्ष्वस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति ।

Haug

He mixes a Dvipād (verse of two padas only) and a Triṣṭubh, ā dhūrṣv asm ā i (7, 34, 4), and brahman vīra (7, 29, 2).

मूलम्

आधूर्ष्वस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाण इति द्विपदां च त्रिष्टुभं च व्यतिषजति ।

विश्वास-प्रस्तुतिः

द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप् ।

Haug

Man is dvipādin i.e., has two feet, and strength is Triṣṭubh.

मूलम्

द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप् ।

विश्वास-प्रस्तुतिः

पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति ।

Haug

(By thus mixing a Dvipād and Triṣṭubh), he mixes man with Strength (provides him with it) and makes him a footing in it.

मूलम्

पुरुषमेव तद्वीर्येण व्यतिषजति वीर्ये प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वेषां पशूनां वीर्यवत्तमः ।

Haug

That is the reason that man, as having prepared for him a footing in Strength, is the strongest of all animals.

मूलम्

तस्मात्पुरुषो वीर्ये प्रतिष्ठितः सर्वेषां पशूनां वीर्यवत्तमः ।

विश्वास-प्रस्तुतिः

यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ ।

Haug

The Dvipād verse consisting of twenty syllables, and the Triṣṭubh (of forty-four), make two Anuṣṭubhs (sixty-four syllables).

मूलम्

यदु द्विपदा च विंशत्यक्षरा त्रिष्टुप्च ते द्वे अनुष्टुभौ ।

विश्वास-प्रस्तुतिः

तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति ।

Haug

By this means, the sacrificer becomes neither separated, &c.

मूलम्

तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति ।

विश्वास-प्रस्तुतिः

एष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति ।

Haug

He mixes Dvipādas and Jagatīs, viz., eṣa brahmāṛya hitvyam (Āśv. Śr. S. 6, 2)[8] and pra te mahe (10, 96, 1-3).

Haug - Notes

[8]These verses are not to be fond in the Ṛigveda Saṁhitâ. I, therefore, write them out from my copies of the Āśval, Sûtras: -

एष ब्रह्मा य ऋत्विय । इन्द्रो नाम श्रुतो गृणे ॥ विस्रुतयो यथा पथ । इन्द्र त्वद्यन्ति रातयः ॥ त्वामिछ्वसस्पते । यन्ति निरोग संयत ॥

मूलम्

एष ब्रह्मा प्र ते महे विदथे शंसिषं हरी इति द्विपदाश्च जगतीश्च व्यतिषजति ।

विश्वास-प्रस्तुतिः

द्विपाद्वै पुरुषो जागताः पशवः ।

Haug

(Man is Dvipād, and animals have the nature of the Jagatī.

मूलम्

द्विपाद्वै पुरुषो जागताः पशवः ।

विश्वास-प्रस्तुतिः

पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति ।

Haug

(By thus mixing Dvipād and Jagatī verses) he mixes man among cattle, and makes him a footing among them.

मूलम्

पुरुषमेव तत्पशुभिर्व्यतिषजति पशुषु प्रतिष्ठापयति ।

विश्वास-प्रस्तुतिः

तस्मात्पुरुषः पशुषु प्रतिष्ठितो ऽत्ति चैनानधि च तिष्ठति वशे चास्य ।

Haug

That is the reason that man, having obtained a footing among cattle, eats (them)[9] and rules over them, for they are at his disposal.

Haug - Notes

[9]That atti “he eats," put here without any object, refers to “paśavaḥ,” animals, follows with certainty from the context. Sây. supplies kṣîra, milk, &c., for he abhorred the idea that animal food should be thus explicitly allowed in a sacred text.

मूलम्

तस्मात्पुरुषः पशुषु प्रतिष्ठितो ऽत्ति चैनानधि च तिष्ठति वशे चास्य ।

विश्वास-प्रस्तुतिः

यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ ।

Haug

As regards the Dvipād verse consisting of sixteen syllables and the Jagatī (consisting of forty-eight), they both (taken together) contain two Anuṣṭubhs.

मूलम्

यदु द्विपदा च षोळशाक्षरा जगती च ते द्वे अनुष्टुभौ ।

विश्वास-प्रस्तुतिः

तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति ।

Haug

By this means, the sacrificer, &c.

मूलम्

तेनो वाचो रूपादनुष्टुभो रूपाद्वज्ररूपान्नैति ।

विश्वास-प्रस्तुतिः

त्रिकद्रुकेषु महिषो यवाशिरम् प्रेष्वस्मै पुरोरथमित्यतिच्छन्दसः शंसति ।

Haug

He repeats verses in metres exceeding the number of padas of the principal metres,[10] viz., trikadrukeṣu mahiṣo (2, 22, 1-3), and proṣvasmai puro ratham (10, 133, 1-3).

Haug - Notes

[10]Thus I have translated the term atichhandasaḥ, i.e., having excess in the metre. The verses mentioned contain seven padas or feet, which exceeds the number of feet of all other metres.

मूलम्

त्रिकद्रुकेषु महिषो यवाशिरम् प्रेष्वस्मै पुरोरथमित्यतिच्छन्दसः शंसति ।

विश्वास-प्रस्तुतिः

च्छन्दसां वै यो रसो ऽत्यक्षरत्सो ऽतिच्छन्दसमभ्यत्यक्षरत्तदतिच्छन्दसो ऽतिच्छन्दस्त्वम् ।

Haug

The juice which was flowing from the metres, took its course to the atichhandas. Thence such metres are called atichhandas, (i. e., beyond the metre, what has gone beyond, is in excess).

मूलम्

च्छन्दसां वै यो रसो ऽत्यक्षरत्सो ऽतिच्छन्दसमभ्यत्यक्षरत्तदतिच्छन्दसो ऽतिच्छन्दस्त्वम् ।

विश्वास-प्रस्तुतिः

सर्वेभ्यो वा एष च्छन्दोभ्यः संनिर्मितो यत्षोळशी ।

Haug

This Ṣoḷaśī Śāstra being formed out of all metres, he repeats verses in the Atichhandas metre.

मूलम्

सर्वेभ्यो वा एष च्छन्दोभ्यः संनिर्मितो यत्षोळशी ।

विश्वास-प्रस्तुतिः

तद्यदतिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते ।

Haug

Thus the Hotar makes (the spiritual body of) the sacrificer consist of all metres.

मूलम्

तद्यदतिच्छन्दसः शंसति सर्वेभ्य एवैनं तच्छन्दोभ्यः संनिर्मिमीते ।

विश्वास-प्रस्तुतिः

सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद ।

Haug

He who has such a knowledge prospers by means of the Ṣoḷaśī consisting of all metres.

मूलम्

सर्वेभ्यश्छन्दोभ्यः संनिर्मितेन षोळशिना राध्नोति य एवं वेद ।