देवा वै प्रथमेनाह्नेन्द्रा य वज्रं समभरंस्तं द्वितीयेनाह्नासिञ्चंस्तं तृतीयेनाह्ना प्रायछंस्तं चतुर्थेऽहन्प्राहरत्तस्माच्चथुर्थेऽहन्षोळशिनं शंसति वज्रो वा एष यत्षोळाशी तद्यच्चतुर्थेऽहन्षोळशिनं शंसति वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै वज्रो वै षोळशी पशव उक्थानि तम्परस्तादुक्थानाम्पर्यस्य शंसति तं यत्परस्तादुक्थानाम्पर्यस्य शंसति वज्रेणैव तत्षोळशिना पशून्परिगछति तस्मात्पशवो वज्रेणैव षोळशिना परिगता मनुष्यानभ्युपावर्तन्ते तस्मादश्वो वा पुरुषो वा गौर्वा हस्ती वा परिगत एव स्वयमात्मनेत एव वाचाभिषिद्ध उपावर्तते वज्रमेव षोळशिनम्पश्यन्वज्रेणैव षोळशिना परिगतो वाग्घि वज्रो वाक्षोळशी तदाहुः किं षोळशिनः षोळशित्वमिति षोळशः स्तोत्राणां षोळशः शस्त्राणां षोळशभिरक्षरैरादत्ते षोळशिभिः प्रणौति षोळशपदां निविदं दधाति तत्षोळशिनः षोळशित्वं द्वे वा अक्षरे अतिरिच्येते षोळशिनोऽनुष्टुभमभिसम्पन्नस्य वाचो वाव तौ स्तनौ
सत्यानृते वाव ते अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद १