ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानि-तोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्वरुणस्तस्मादैन्द्रा वरुणम्मैत्रावरुणस्तृती-यसवने शंसतीन्द्र श्च हि तान्वरुणश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा ब्राह्म-नाच्छंसिन उक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्बृहस्पतिस्तस्मादैन्द्रा बार्हस्पत्यम्ब्राह्मणाच्छंसी तृतीयसवने शंसतीन्द्र श्च हि तान्बृहस्पतिश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा अछा-वाकस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्विष्णुस्तस्मादैन्द्रा वैष्णवमछावाकस्तृतीयसवने शंसतीन्द्र श्च हि ता-न्विष्णुश्च ततोऽनुदेतां द्वन्द्वमिन्द्रे ण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं त-स्माद्द्वन्द्वान्मिथुनम्प्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षळृचः सा विराड्दशिनी तद्विराजि
यज्ञं दशिन्याम्प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति ५०
३
इति तृतीयपञ्चिका समाप्ता