५०

विश्वास-प्रस्तुतिः

ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त ।

Haug

(The Śastra of the Three Minor Hotri-priests at the Evening Libation of the Ukthya Sacrifice.)

The Asuras entered the Uktha (Śastra) of the Maitrāvaruṇa.

मूलम्

ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त ।

विश्वास-प्रस्तुतिः

सो ऽब्रवीदिन्द्रः कश्चाहं चेमानितो ऽसुरान्नोत्स्यावहा इति ।

Haug

Indra said, “Who will join me, that we both might turn these Asuras out from here (the Śastra of the Maitrāvaruṇa)?”

मूलम्

सो ऽब्रवीदिन्द्रः कश्चाहं चेमानितो ऽसुरान्नोत्स्यावहा इति ।

विश्वास-प्रस्तुतिः

अहं चेत्यब्रवीद्वरुणः ।

Haug

“I,” said Varuṇa.

मूलम्

अहं चेत्यब्रवीद्वरुणः ।

विश्वास-प्रस्तुतिः

तस्मादैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसति ।

Haug

Thence the Maitrāvaruṇa repeats a hymn for Indra-Varuṇa[21] at the evening libation.

Haug - Notes

[21]This is Indrâ-Varuṇâ yuvam (7, 82).

मूलम्

तस्मादैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसति ।

विश्वास-प्रस्तुतिः

इन्द्रश्च हि तान्वरुणश्च ततो नुदेताम् ।

Haug

Indra and Varuṇa then turned them out from it (the Śāstra of the Maitrāvaruṇa).

मूलम्

इन्द्रश्च हि तान्वरुणश्च ततो नुदेताम् ।

विश्वास-प्रस्तुतिः

ते वै ततो ऽपहता असुरा ब्राह्मणाच्छंसिन उक्थमश्रयन्त ।

Haug

The Asuras having been turned out from this place, entered the Śāstra of the Brāhmaṇāchhaṁsi.

मूलम्

ते वै ततो ऽपहता असुरा ब्राह्मणाच्छंसिन उक्थमश्रयन्त ।

विश्वास-प्रस्तुतिः

सो ऽब्रवीदिन्द्रः कश्चाहं चेमानितो ऽसुरान्नोत्स्यावहा ।

Haug

Indra said, “Who will join me, that we both might turn the Asuras out from this place?”

मूलम्

सो ऽब्रवीदिन्द्रः कश्चाहं चेमानितो ऽसुरान्नोत्स्यावहा ।

विश्वास-प्रस्तुतिः

इत्यहं चेत्यब्रवीद्बृहस्पतिः ।

Haug

Bṛihaspati answered, “I (will join you).”

मूलम्

इत्यहं चेत्यब्रवीद्बृहस्पतिः ।

विश्वास-प्रस्तुतिः

तस्मादैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसति ।

Haug

Thence the Brāhmaṇāchhaṁsī repeats at the evening libation an Aindra-Bārhaspatya hymn.[22]

Haug - Notes

[22]This is ud apruto na vayo (10, 68).

मूलम्

तस्मादैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसति ।

विश्वास-प्रस्तुतिः

इन्द्रश्च हि तान्बृहस्पतिश्च ततो नुदेताम् ।

Haug

Indra and Bṛihaspati turned the Asuras out from it.

मूलम्

इन्द्रश्च हि तान्बृहस्पतिश्च ततो नुदेताम् ।

विश्वास-प्रस्तुतिः

ते वै ततो ऽपहता असुरा अच्छावाकस्योक्थमश्रयन्त ।

Haug

The Asuras, after having been turned out from it, entered the Śāstra of the Achhāvāka.

मूलम्

ते वै ततो ऽपहता असुरा अच्छावाकस्योक्थमश्रयन्त ।

विश्वास-प्रस्तुतिः

सो ऽब्रवीदिन्द्रः कश्चाहं चेमानितो ऽसुरान्नोत्स्यावहा ।

Haug

Indra said, “Who will join me, that we both might turn out the Asuras from here?”

मूलम्

सो ऽब्रवीदिन्द्रः कश्चाहं चेमानितो ऽसुरान्नोत्स्यावहा ।

विश्वास-प्रस्तुतिः

इत्यहं चेत्यब्रवीद्विष्णुः ।

Haug

Viṣṇu answered, “I (will join you.)”

मूलम्

इत्यहं चेत्यब्रवीद्विष्णुः ।

विश्वास-प्रस्तुतिः

तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसति ।

Haug

Thence the Achhāvāka repeats at the evening libation an Aindrā-Vaiṣṇava hymn.[23]

Haug - Notes

[23]This is saṁ vâm karmaṇā (6, 69).

मूलम्

तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसति ।

विश्वास-प्रस्तुतिः

इन्द्रश्च हि तान्विष्णुश्च ततो नुदेताम् ।

Haug

Indra and Viṣṇu turned the Asuras out from this place.

मूलम्

इन्द्रश्च हि तान्विष्णुश्च ततो नुदेताम् ।

विश्वास-प्रस्तुतिः

द्वन्द्वमिन्द्रेण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं तस्माद्द्वन्द्वान्मिथुनं प्रजायते प्रजात्यै ।

Haug

The deities who are (successively) praised along with Indra, form (each) a pair with (him). A pair is a couple, consisting of a male and female. From this pair such a couple is produced for production.

मूलम्

द्वन्द्वमिन्द्रेण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं तस्माद्द्वन्द्वान्मिथुनं प्रजायते प्रजात्यै ।

विश्वास-प्रस्तुतिः

प्रजायते प्रजया पशुभिर्य एवं वेद ।

Haug

He who has such a knowledge, is blessed with children and cattle.

मूलम्

प्रजायते प्रजया पशुभिर्य एवं वेद ।

विश्वास-प्रस्तुतिः

अथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः ।

Haug

The Ṛituyājas of both the Potar and Neṣṭar amount to four.[24]

Haug - Notes

[24]The Potar has to repeat the second and eighth, the Neṣṭar the third and ninth Ṛituyâja, see page 135-36. At each of the three Śastras of the Ukthya, each of these two priests has also to recíte a Yâjyâ. This makes six. If they are added to the four Rituyâjas, then the number ten is obtained, which represents the Virâṭ.

मूलम्

अथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः ।

विश्वास-प्रस्तुतिः

षळृचः सा विराड्दशिनी ।

Haug

The (Yājyās to be recited by them along with the other Hotars) are six verses. This is a Virāṭ which contains the number ten.

मूलम्

षळृचः सा विराड्दशिनी ।

विश्वास-प्रस्तुतिः

तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति ।

Haug

Thus they complete the sacrifice with a Virāṭ, which contains the number ten (three times ten).

मूलम्

तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति ।