अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवासन्न व्यावर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयदेह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिर इत्यसुर्या ह वा इतरा गिरः सोऽग्निरुपोत्तिष्ठन्नब्रवीत्किं स्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति भरद्वाजो ह वै कृशो दीर्घः पलित आस सोऽब्रवीदिमे वा असुरा उक्थेषु श्रितास्तान्वो न कश्चन पश्यतीति तानग्निरश्वो भूत्वाभ्यत्यद्र वद्यदग्निरश्वो भूत्वाभ्यत्यद्र वत्तत्साकमश्वं सामाभवत्तत्साकमश्वस्य साकमश्वत्वं तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वा-दिति प्रमंहिष्ठीयेन प्रनयेदित्याहुः प्रमंहिष्ठीयेन वै देवा असुरानुक्थेभ्यः प्राणुदन्त
तत्प्राहैव प्रमंहिष्ठीयेन नयेत्प्र साकमश्वेन ४९