४७

छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि जघनार्धे यज्ञस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवं तेभ्य एतम्मैत्रावरुणम्पशुपुरोळाशमनु देविका-हवींषि निर्वपेद्धात्रे पुरोळाशं द्वादशकपालं यो धाता स वषट्कारोऽनुमत्यै चरुं यानुमतिः सा गायत्री राकायै चरुं या राका सा त्रिष्टुप् सिनीवाल्यै चरुं या सिनीवाली सा जगती कुह्वै चरुं या कुहूः सानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवाति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुर्धातारमेव सर्वासाम्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यं समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां धातारम्पुरस्ताद्यजति तदासु सर्वासु मिथुनं दधातीति नु देविकानाम् ४७