यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्ते देवा अब्रुवन्यज्ञो वै नोऽन्नाद्यमुदक्रमीदन्विमं यज्ञमन्न अन्विछामेति तेऽब्रुवन्कथमन्विछामेति ब्राह्मणेन च छन्दोभि-श्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयंस्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाज-यंस्तस्माद्धाप्येतर्हि दीक्षणीयाआमिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संया-जयन्ति तमनु न्यायमन्ववायंस्ते प्रायणीयमतन्वत तम्प्रायणीयेन नेदीयोऽन्वा-गछंस्ते कर्मभिः समत्वरन्त तच्छंय्वन्तमकुर्वंस्तस्माद्धाप्येतर्हि प्रायणीयं शंय्वन्तमेव भवति तमनु न्यायमन्ववायंस्त आतिथ्यमतन्वत तमातिथ्येन नेदीयोऽन्वागछंस्ते कर्मभिः समत्वरन्त तदिळान्तमकुर्वंस्तस्माद्धाप्येतर्ह्या-तिथ्यमिळान्तमेव भवति तमनु न्यायमन्ववायंस्त उपसदोऽतन्वत तमुपस-द्भिर्नेदीयोऽन्वागछंस्ते कर्मभिः समत्वरन्त ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजंस्तस्माद्धाप्येतर्ह्युपसत्सु तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति तमनु न्यायमन्ववायंस्त उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुवंस्त-माप्त्वान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्ह्युपवसथ आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां-शनैस्तरामिवानुब्रूयादनूत्सरमिव हि ते तमायांस्तस्मादुपवसथे यावत्या वाचा कामयीत तावत्यानुब्रूयादाप्तो हि स तर्हि भवतीती तमाप्त्वाब्रुवंस्तिष्ठस्व नोऽन्नाद्यायेति स नेत्यब्रवीत्कथं वस्तिष्ठेयेति तानीक्षतैव तमब्रुवन्ब्राह्मणेन च नश्छन्दोभिश्च सयुग्भूत्वान्नाद्याय तिष्ठस्वेति तथेति तस्माद्धाप्येतर्हि यज्ञः
सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च छन्दोभिश्च ४५