४४

यो वा एष तपत्येषोऽग्निष्टोम एष साह्नस्तं सहैवाह्ना संस्थापयेयुः साह्नो वै नाम तेन संत्वरमानाश्चरेयुर्यथैव प्रातःसवन एवम्माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति यद्ध वा इदम्पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदम्प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संत्वर-माणश्चरन्ति तस्माद्धेदम्प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवम्माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति स एतमेव शस्त्रेणानुपर्यावर्तेत यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति तस्मान्मन्द्र या वाचा प्रातःसवने शांसेदथ यदा-भ्येत्यथ बलीयस्तपति तस्माद्बलीयस्या वाचा मध्यंदिने शंसेदथ यदा-भितरामेत्यथ बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेदेवं शंसेद्यदि वाच ईशीत वाग्घि शस्त्रं यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येतैतत्सुशस्ततममिव भवति स वा एष न कदा चनास्तमेति नोदेति तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाथात्मानं विपर्यस्यते रात्री-मेवावस्तात्कुरुतेऽहः परस्तादथ यदेनम्प्रातरुदेतीति मन्यन्ते रात्रेरेव तदन्तमि-त्वाथात्मानं विपर्यस्यतेऽहरेवावस्तात्कुरुते रात्रीम्परस्तात्स वा एष न कदा चन निम्रोचति न ह वै कदा चन निम्रोचत्येतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद य एवं वेद ४४