४३

स वा एषोऽग्निरेव यदग्निष्टोनिअस्तं यदस्तुवंस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवास्तं यच्चतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुस्तोमस्तं चतुस्तोमं सन्तं चतुष्टोम इत्या-चक्षते परोक्षेण परोक्षप्रिया इव हि देवा अथ यदेनमूर्ध्वं सन्तं ज्योति-र्भूतमस्तुवंस्तस्माज्ज्योतिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य यथैव प्रायणं तथोदयनं तदेषाभि यज्ञगाथा गीयते यदस्य पूर्वमपरं तदस्य यद्वस्यापरं तद्वस्य पूर्वमहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत्परस्ताद् इति यथा ह्येवास्य प्रायणमेवमुदयनमसदिति तदाहुर्यत्त्रिवृत्प्रायणमेकविंशमुदयंअं केन ते समे इति यो वा एकविंशस्त्रिवृद्वै

सोऽथो यदुभौ तृऔ तृचिनाविति ब्रूयात्तेनेति ४३